SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६५६ ४र्थ अध्यायः] शारीरस्थानम्। भूताङ्गावयवः। द्वितीये मासि घनः सम्पयते पिण्डः पेश्यर्बुद वा। तत्र घनः पुरुषः, स्त्री पेशी, अर्बुदं नपुंसकम्। तृतीये मासि सवेंन्द्रियाणि सर्वाङ्गावयवाश्च योगपदेनाभिनिवर्तन्ते । तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान् विभज्य पूर्वमुक्ता यथावत् । महाभूतविकारप्रविभागेन विदानीमस्य तांश्चैवाङ्गावयवान् कांश्चित्, पर्यायान्तरेणापरांश्चानुव्याख्यास्यामः ॥ ५ ॥ मूक्ष्मदेहस्थानावयवः असत्स्थूलदेहभावागावयवः एतदुभयभूताङ्गावयवरूपः इत्येवं कललं प्रथमे मासि पूर्णे सति भवति। ततो द्वितीये मासि स गर्भखमापन्नो घनः कठिनः स्यात् । स च त्रिविधः पिण्डः पेशी वाप्यव्वु दं वा। तत्र घनः पिण्डो ग्रन्थााकारश्चेत् पुरुषो भवति। पेशी चेत् स्त्री भवति। अर्बुदं वर्त्तलाकारश्चेन्नपुंसकमिति । अथ तृतीये मासि इत्यादि। अभिनिवर्तन्ते इति तृतीयमासस्य पूर्वार्द्ध हस्तपादशिरसां पञ्च पिण्डका अभिनिव्वतन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति। शेषा? तु सङ्गेिन्द्रियाणि सर्वाङ्गावयवाश्च व्यक्तारम्भा भवन्तीत्यर्थः। चतुर्थमासस्य पूर्वार्द्ध प्रव्यक्ततररूपेण भवन्ति इत्यभिप्रायभेदेन तृतीये मासि सर्बेन्द्रियाणि सङ्गिावयवाश्च योगपदेवनाभिनिव्वर्तन्ते इति स्वयमस्मिंस्तन्त्रे लिखितवान् । सुश्रुतस्तु “तृतीये हस्तपाद शिरसां पश्च पिण्डका निव्वत्तेन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवतीति । चतुर्थ साङ्गप्रत्यङ्गविभागः प्रव्यक्ततरो भवति। गर्भहृदयप्रव्यक्तभावात् चेतनाधातुरभिव्यक्तो भवति। कस्मात् तत्स्थानवात् । तस्माद गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति । द्विहृदयाश्च नारी द्वैहृदयिनीमाचक्षते” इति लिखितवान्। तत्रास्येत्यादि। तत्र सम्बन्द्रियसङ्गिावयवेषु मध्येऽस्य गर्भस्य केचित् खगादय एवागावयवाः पूर्व खुड्डीकागर्भावक्रान्तिशारीरे, इदानीन्वस्य गर्भस्य महाभूतविकारप्रविभागेन इत्यर्थः। अव्यक्तविग्रह इत्यस्य विवरणम्-सदसदभूताङ्गावयव इति विद्यमानाविद्यमानाङ्गावयव इत्यर्थः । अङ्गानाञ्च वीजरूपतया स्थितत्वे सच्वम्, अव्यक्तभावाच्चासत्त्वम् । किञ्च सदसदभूताङ्गावयवो घनः सम्पद्यते इति योजना । घनः कठिनः । पिण्डो ग्रन्थ्याकारः । पेशी दीर्घमांसपेश्याकारा । अर्बुदं वर्तुलोन्नतम् । अङ्गानि शिरःप्रभृतीनि तदवयवाश्चेत्यङ्गावयवाः। यौगपदेवनेतिवचनेन "कुमारस्य शिरः पूर्वमभिनिर्वर्तते” इत्यादिवक्ष्यमाणान्येकैकीयमतानि निषेधयति। योगपदेवन हि सर्वाङ्ग For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy