SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५८ चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् सर्वधातुकलुषीकृतः ® खोटभूतो भवत्यव्यक्तविग्रहः सदसद्नाम ब्रह्मात्मा एतस्मान्मनो विक्रियमाणमाकाशं ससज्जति द्वितीयादिकल्पे पृथिव्यप्तेजोवाय्वाकाशमनोऽहकारमहान्त इत्यष्टौ प्रकृतय आत्मा नवमी प्रकृतिरिति भगवद्गीतायामुक्तम्-भूमिरापोऽनिलो वह्निः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयं महावाहो जीवभूता सनातनी। मूलप्रकृतिरुद्दिष्टा ययेदं धार्यते जगत् ॥ इति । एतच्चोक्तम्। मातृजश्चायं गर्भ इत्यादिना, मात्रादिजानि पञ्चभूतानि मनोऽहकारो महानात्मा चेति नव प्रकृतयः। स्थूलपुरुषस्य चतुर्विंशतिकस्य दशेन्द्रियाण्याश्व पञ्चेति पञ्चदशात्मशब्देन संगृहीतानीति चतुर्विंशतिः प्रकृतयस्तत्र विकृतिभूताः षोड़श प्रकृतयः प्रकृतिभूता अष्टौ प्रकृतय इति। इत्थं गर्मखमापन्नः प्रथमे मासि सम्मूच्छितः स्यात् । सुश्रुते च-“सौम्यं शुक्रमात्तेवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेण परस्परोपकारात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च। तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति ततस्तेजोऽनिलसन्निपाताच्छु क्रं च्युत योनिमभिप्रतिपद्यते संमृज्यते चात्तवेन ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते । क्षेत्रज्ञो वेदयिता स्पष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता योऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्देवासुरैरपरैश्च भावैर्वायुनाभिप्रेर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते । तत्र शुक्रबाहुल्यात् पुमानातवबाहुल्यात् स्त्री साम्यादुभयोर्नपुसकमिति। ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः । अदृष्टार्तवाप्यस्तीत्येके” इत्यारभ्य “तत्र प्रथमे मासि कललं जायते। द्वितीये शीतोष्णानिरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते। यदि पिण्डः पुमान्, स्त्री चेत् पेशी, नपुसकञ्चेदवं दमिति ॥" तथा चात्र प्रथमे मासि प्रथमतः शुक्रशोणितयोः सम्यङ्मेलनं ततः सर्वधातुकलुषीकृतः। सर्वेषां शुक्रगाणां शोणितगानामात्मगानाश्च रसगानाञ्च धातूनां वायवादीनां भूतानामकलुषभावः कलुषभावः क्रियते स्म इत्याविलीकृतो भवति। ततोऽनन्तरन्तु खोटभूतः स्त्यानरूपः श्लेष्मवद भवति। तदा बव्यक्तविग्रहः पिण्डयाद्याकाराव्यक्तिसमसदभूताजावयवः सत् चक्रपाणिः-सर्वधातुकलनीकृत इति अव्यक्तसर्चधातुतया कलनीकृतः। 'धातु'शब्देन च भूतान्युच्यन्ते। किंवा रसादिधातुवीजानि। खोटः श्लेष्मा। तेन खोटभूत इति श्लेष्मभूत * सर्वधातुकलनीकृतः इति चक्ररतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy