SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम् । १७५१ तु परिणामि तत् विक्रियमाण दधितक्रादि भवति स्नेहस्तु धृतनवनीतरूप एव वर्तते न तु विवर्त्तते, तद्वदतिसूक्ष्मपरमव्योमरूपा मुख्यांशशक्तिने परिणामिनी न च विक्रियते। प्रभावाख्या तु गुणांशभूता शक्तिः परिणामिनी ततो विक्रियते। इत्येवमेका शक्तिरेव सत् खल्वसद्ब्रह्म। ततो वै सदजायतेति । यथा तदसत एव सतः सदजायत तदुक्तं छान्दोग्योपनिषदि । तदैक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजतेत्यादि। तत् सदेवासद्ब्रह्म खलु शक्तिः सवेकालनया प्रभावाख्यया शक्तया महानिर्वाणाख्यं प्रलयं कृवैकवाद्वितीया स्वप्रभावगुणनिगूढ़ा सती क्रियागुणव्यपदेशरहितैव प्रसप्तेवासीत्। तन्महानिर्वाणे सर्वकालनाशक्तेश्चक्रवद भ्रमणस्वरूपखात् क्रमेण तदत्यये सव्वसज्जनाशक्ताटेके प्रथमतो रञ्जनाशक्तिरुद्रिक्ता भवति यदा तदा निशावसाने प्रसुप्तोत्थितपुरुष इव सा शक्तिब्रह्म प्रसुप्तोत्थितेव सती अहं बहु स्याम् । कथमिति प्रजायेयाहं प्रजाः प्रसूयेयेति ऐक्षतालोचयत। तथालोच्य रञ्जनाशक्तिपरिणामरूपं तेजोऽसृजत। लोहितमिवाभासमानं लोहितवर्णस्याकररूपं न तु लोहितं तेजः सर्वेषां ज्योतिषामाकररूपं ज्योतिश्चक्षुरिव चक्षुरस्जत । अथ तत् तेज ऐक्षत बहु स्यां प्रजायेयेति । तदपोऽमृजतेति । तत् तेजोऽहं बहु स्यां प्रजायेयेत्यालोच्य स्वस्यैकादशांशैकांशं विकुवेदपोऽसृजत । ता आपः शुक्ला इवाभासाः शुक्लवणस्य आकररूपा न तु शुक्लाः। तथा रसरूपाः सवरसानामाकररूपा अमृतरूपा आप इवापः सासामपामाकररूपा न खापः। तत्रेयं युक्तिः। तस्मात् इत्यादि। यस्मात् तेजस एवादौ जाता आपस्तस्मादिदानी यत्रकुचित पुरुषः शोचति शोकात् तेज उद्रिक्तं भवति। तदुडेकात् पुरुषः विद्यति घम्मेवान् भवतीति तेजस एवापोऽधिजायन्ते इति। अथ ता आप ऐक्षन्त बहु स्याम प्रजायेमहीति। तदन्नमसृजन्तेति ता आपो वयं बहु स्याम प्रजायेमहीत्यालोच्य स्वैकादशांशैकांशं विकुव्वेत्योऽन्नमसृजन्त । तदन्नं कृष्णमिवाभासं कृष्णवर्णस्याकरभूतं न तु कृष्णवर्ण गन्धवदाभासं सर्वगन्धाकरभूतं न तु गन्धवती पृथिवी। तच्चाद्यमाद्यमिवाद्यानां सव्वेषामाकररूपं न खाद्यमिति। तेषामेषां तेजोऽवन्नानां मेलने सति लोहितशुक्लकृष्णवदाभासमाना हिरण्यवर्णवदाभासा सेवाजा शक्तिब्रह्मातिपरमसूक्ष्मध्वनिमती परममूक्ष्मव्योमरूपा गायत्री वागेव देवताविरभूत्। सा शक्तिप्रभावतेजोऽबन्नानीति पश्चात्मिकाऽनन्ताचिन्त्यप्रभाववती। एवमुक्तं वायवीये। शक्तिः प्रथमसम्भूता गायत्री सा पदोत्तमेति। इत्येतत् तेजोऽवन्नतन्मय For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy