SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७५० चरक-संहिता। कतिधापुरुषीयं शारीरम् एवञ्च भावानामसत्ता यधभाव उच्यते तदपि भावावत्तनमवस्तु चाभाव इत्यभिप्रायेणोक्तमभावाभावोत्पत्तिर्नेति गौतमेन । तत्र वस्तुन्यभावशब्दप्रयोगः कृत इति । तथा च द्विविधो भवति अभावो वस्तुभूतश्चावस्तुभूतश्च । तत्रासत्पदस्थना नावस्तुभूताभाव उच्यते उपादानोपम(नासम्भवेन सदुत्पत्त्यनुपपत्तेः। तस्माद वस्तुभूत एव अभाव इह नत्रा प्रतिपद्यते। तत्रोक्तं कणादैन वैशेषिके शास्त्रे असता इदमग्र आसीदिति स्मृखा। क्रियागुणव्यपदेशाभावात् प्रागसत्। सदसत्। सतः क्रियागुणव्यपदेशाभावादर्थान्तरभावात्। सच्चासत्। यच्चान्यदसदतः तदसदिति पूर्वाध्याये दर्शितं व्याख्यातश्च। तस्मात् तेजोऽवन्नादिभ्यः सयोऽन्यदसदिति । वस्तु विशेषः। तद् यथोक्तं श्वेताश्वतरोपनिषदि। कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुषेति चिन्ता। संयोग एषां न तु आत्मभावादात्माप्यनीशः सुखदुःखहेतोरिति। कालादीनामेकैकस्मादेषां जन्माद्यभावान्न कालादन्यतमं ब्रह्मेति चिन्ता, तथैपां संयोगः संघातो न ब्रह्म। आत्मभावात्। आत्मा हि नेशः सुखदुःखहेतोरिति। तहिं किं कारणं ब्रह्मेत्यत उक्तम् । ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्। यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येक इति। ते ब्रह्मवादिनो ध्यानयोगानुगता देवस्यात्मा या शक्तिः प्राक् सर्गात् स्वगुणः प्रभावैः निगूढ़ा क्रियागुणव्यपदेशरहिता आसीत् तां ब्रह्म अपश्यन् । तस्या होकस्या एव सर्वेषां जन्मजीवनप्रतिष्ठानाधिष्ठानसुखासुखवर्तनानि भवन्ति नान्यस्मात् एकस्मात् कस्माचिदपीति। देवस्तु स यः एकः कालादीनि कारणान्यधितिष्ठति तस्य देवस्यात्मा शक्तिब्रह्म। नान्यदेवस्य न वा तस्य देवस्यात्मनः स्वस्य शक्तिब्रह्म । शानबलक्रियाशक्त्यादिव्यवच्छेदार्थमात्मेति । तस्माद देवस्य शक्तिरिति नोक्तम्। वायुरिव प्रभावाख्या शक्तिस्तद्विशिष्टाऽतिसूक्ष्मपरमव्योमरूपा शक्तिश्चेति द्वयमपि शक्तिरूपेणैकमेवासीत् न तु विजातीयद्वैतं वह्यादेः आलोककृत प्रभावस्तद्विशिष्टरूपञ्चेति द्वयं यथा रूपखेनैकमेव वस्तु न तु विजातीयद्वैतं न हि रूपादन्य आलोककृत प्रभावस्तथा शक्तेने प्रथक प्रभावाख्या शक्तिरित्यत उक्तमेकमेवाद्वितीयमिति। तदद्वितीयमेकमसत् क्षीरवत् । क्षीरं यथा स्नेहांशे भवत्यपरिणामि चाविकारि स्नेहातिरिक्तद्रवांशे गवादावपि पदधातुसमुदाये यद्यपि वर्त्तते, तथापि सर्वप्रधाने नर एव विशेषेण वर्तते। तेन नातिप्रसिद्धो गवादौ पुरुषशब्दः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy