SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४६ चरक-संहिता। कतिधापुरुषीयं शारीरम् खादयश्चेतनाधातु-षष्ठास्तु पुरुषः स्मृतः। चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः॥ गङ्गाधरः-ननु कस्य प्रश्नस्योत्तरतया किं व्याख्यातवानित्यतः प्रथमप्रश्नस्योत्तस्माह-खादय इत्यादि। अत्राग्निवेशः प्रथमाध्याये सर्वाधिष्ठानतया सव्व क्रियाधिकरणतया च पुरुष उक्तः स खलु धातुभेदेन कतिधा भवतीत्यभिप्रेत्य प्रथममिदं पृष्टवान् । कतिधा पुरुषो धीमन् धातुभेदेन भिद्यत इति अस्यार्थः ;-हे धीमन् गुरो महर्षे ! पुरुषः कतिधा भिद्यते एतावन्मात्रप्रश्ने पुरि शरीरे वासिखादात्मा पुरुषः कतिधा धातुभेदेन भिद्यते इत्येवं गम्यते। तथा पूर्वाध्यायोक्तः--सत्त्वमात्मा शरीरश्च त्रयमेतत् त्रिदण्डवत् । लोकस्तिष्ठति संयोगात् तत्र सर्च प्रतिष्ठितम् ॥ स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम् । वेदस्यास्येत्यनेन–यः पुरुषः स धातुभेदेन कतिधा भिद्यते इत्यपि गम्यते। तत्र कतिधा पुरुष एतावन्मात्रप्रश्ने नरसुरासुरपशुपक्षिकीटपतङ्गक्षतृणाद्यशीतिलक्षयोनिप्राणिनां प्रत्येकशो विधा प्रश्नः स्यात् तद्वारणायोक्तं धातुभेदेनेति । एतादृशप्रश्ने होकैकपुरुषस्य धातुभेदेन कतिधावमिति शापितम्। अथात्र धातुर्धारणपोषणोपादानहेतुरारम्भकोऽर्थः । पुरीषमूत्रवातादयो धारणहेतवो धातवः। रसादयः पोषणहेतवो धातवः। ओजःप्रभृतयो धारणपोषणयोर्हे तवोधातवः, सर्वं ते चोभयार्थकराः परस्परान्वयादिति धातवः सर्वेषामिति न तत्प्रश्नः। मिथः संयुक्तसत्त्वात्मशरीरसमुदायात्मकः पुरुषो धातुभेदेन कतिधेति प्रश्नमभिप्रेत्योत्तरयति-खादय इत्यादि। पड़धातुक एकधातुकश्चतुविंशतिधातुकश्चेति धातुभेदेन त्रिविधः पुरुषो भवतीति ज्ञापयितुं प्रथमं पड़ धातुकं विवृणोति । खादयश्चेतनाधातु-पष्ठास्तु पुरुषः स्मृत इति, पड़ धातुक एकविधः पुरुषः। खमाकाशं शब्दतन्मात्ररूपं तदादियेषां वाय्वादीनां स्पर्शतन्मात्रादिरूपाणां न पूर्वपूर्वभूतानुपविष्टरूपाणाञ्च ते भणिकत्वेन चिकित्सायाः प्रवृत्तियोग्यकालावस्थानं नास्ति। वेदनानां कारणमधिष्टानश्च यद्यपि दीघञ्जीवितीयेऽप्युक्तम्, तथापीह प्रकरणवशाद्विशेषप्रतीत्याकाङ्क्ष या ध विशिष्टाः पुनः प्रश्नाः । प्रश्नार्थाश्चामी उत्तरतन्त्रेणाचार्येण प्रपञ्चनीया इति तव व्याकरणीयाः ॥ १-- ३ ।। चक्रपाणिः-खादय इत्यादि। खादयः खं वायुरग्निरापः क्षितिस्तथा इति वक्ष्यमाणाः । चेतनाषष्ठा इत्यत्रैव चेतनाशब्देन चेतनाधारः समनस्क आत्मा गृह्यते। खादिग्रहणेन ___ * चेतनाषष्ठा धातवः इति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy