SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम् । १७४५ ज्ञयात् क्षेत्राटु विना पूर्व क्षेत्रज्ञो हि न युज्यते । क्षेत्रश्च यदि पूर्व स्यात् क्षेत्रज्ञः स्यादशाश्वतः॥ सानिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते । स्यात् कथं वा विकारस्य विशेषो वेदनाकृतः ॥ अथ चार्तस्य भगवस्तिमृणां कां चिकित्सति । अतीतां वेदनां वेद्यो वर्तमानां भविष्यतीम् ॥ भविष्यन्या असम्प्राप्तिरतीताया अनागमः । साम्प्रतिक्या अपि स्थानं नास्त्यत्तेः संशयो ह्यतः ॥ कारणं वेदनानां किं किमधिष्ठानमुच्यते । क चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः॥ सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःस्मृतः । एकः प्रशान्तो भूतात्मा कलिङ्गरूपलभ्यते ॥२॥ इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः । सव्वं यथावत् प्रोवाच प्रशान्तात्मा पुनव्वसुः॥३॥ गङ्गाधरः-तत्र प्रश्नाः। कतिधा पुरुष इत्यादयस्त्रयोविंशतिः प्रश्ना यथास्वम् उत्तरवचनव्याख्यानात् प्राक् व्याख्यास्यन्ते ॥२॥ गङ्गाधरः-इतीत्यादि। इति त्रयोविंशतिप्रश्नबोधकमग्निवेशस्य शिष्यवरस्य वचः श्रवा मतिमतां वरः प्रशान्तात्मा शान्तमना जीवन्मुक्तः पुनर्वसुर्नाम मुनिर्गुरुः सर्व त्रयोविंशतिकं प्रश्न यथावत् यथाविधि याथार्थ्येन प्रोवाच उत्तरवचनेन व्याख्यातवान् ॥३॥ गता अपि । क्षेत्रज्ञ आत्मा। क्षेत्रमध्यक्तवज्जितं सर्च वक्ष्यमाणम् । ज्ञेयमित्यादि-असति क्षेत्रे क्षेत्रज्ञानाभावान्न क्षेत्रज्ञत्वमुपपद्यते इति भावः। साक्षिभूत इति साक्षिसरशः। विशेषो वेदनाकृत इति पुत्रादिज्ञानरूपवेदनाजनितो हर्षादिविशेष इत्यर्थः। तिसृणामिति अतीतानागतवर्तमानानां दुःखरूपाणां मध्ये कां चिकित्सति । अतीतामित्यादौ किशब्दोऽध्याहार्यः । तेन किमतीतां चिकित्सति, किं वर्तमानाम्, किंवा भविष्यन्तीमिति याज्यम्। स्थानं नास्तीति * ज्ञेयं क्षेत्रमिति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy