________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
विमानस्थानम् ।
१५१७ मधुरतिक्तकषायशोतानामौषधाभ्यवहार्याणामुपयोगः। मृद्धमधुरसुरभिशीतहृद्यानां गन्धानाञ्चोपसेवा, मुक्तामणिहारावलीनाञ्च पवनशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे क्षणे स्रक्चन्दन- -प्रियङ्ग कालीयमृणालशीतवातवारिभिस्त्पलकुमुदकोकनदसौगन्धिकपद्मानुगतैश्च वारिभिरभिप्रोक्षणम्, श्रुतिसुखमृदुमधुरमनोऽनुगानाञ्च गीतवादित्राणां श्रवणं, श्रवणञ्चाभ्युदयानाम, सुहृद्भिश्च संयोगः, संयोगश्चेष्टाभिः स्त्रीभिः शीतोपहितांशुकखग्दामहारधारिणीभिः, निशाकरांशुशीतलप्रवातहर्म्यवासः शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवा, रम्याणाञ्चोपवनानां सुखशिशिरसुरभिमारुतोपवातानामुपसेवनम्,
कम्म, न तु तैलादिना। अधश्चेति विरेचनेन। हारावली हारश्रेणिः। मुक्तादीनां विशेषणं पवनादिस्थितानामिति शैत्यार्थम् । धारणमुरसा वक्षसि धारणम् इत्यर्थः। क्षणे क्षणे प्रतिक्षणे सकचन्दनादीनां योगेन शीतैर्वारिभिरभिमोक्षणमभ्युक्षणमुत्पलाद्यनुगतैश्च वारिभिरभ्युक्षणम्।श्रुतिसुखानि श्रवणसुखानि मृदूनि मधुराणि हृदयङ्गमानि मनोऽनुगानि च न हि मधुरमपि सर्वेषां सर्व मनोऽनुगमतोऽस्य मधुरस्य वारणाय मनोऽनुगेतिपदम्, स्वस्वमनोऽनुकूलानीत्यर्थः। अभ्युदयानां परममङ्गल्यानां वेदादीनाम् इष्टाभिरभिमताभिः स्वमनोशाभिः शीतोपहितानामंशुकादीनां धारिणीभिः, अंशुक चीनवसनं सग्दाम मालाबाहुल्यम्। निशाकरांशुभिः शीतलं प्रवातश्च वातप्रकृष्टश्च हम्मं तत्र वासः । शैलान्तरं पुलिनं तोयोत्थवालुकामयद्वीपं शिशिरं सदनं शिशिरं वसनं शिशिरं व्यजनं शिशिरः पवनस्तेषां सेवा भजनम् । सुखानां सुखननकानां शिशिराणाञ्च
* अप्रयचन्दनेति वा पाठः।
For Private and Personal Use Only