SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः विमानस्थानम् । १४३६ अपि च खलु जनपदोदुध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्मासत्त्ववयसां मनुष्याणां कस्माद् भवतीति ॥३॥ तमुवाच भगवानात्रेयः। एवमसामान्यवतामप्येभिरग्निवेश प्रकृत्यादिनिर्भावैर्मनुष्याणां येऽन्ये भावाः सामान्यास्त वैगुण्यात् समानकालाः समानलिङ्गाश्च व्याधयोऽभिनिवर्तमाना जनपदम् उद्ध्वंसयन्ति। ते तु खल्विम भावाः सामान्या जनपदेषु भवन्ति, तद् यथा-वायुरुदकं देशः काल इति ॥ ४ ॥ __ तत्र वातमेवंविधमनारोग्य करं विद्यात्। तद् यथाऋतु-विषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमति ख्यापितः। अत्रास्माभिरिति शेषः। स्वगतं जनपदोध्वंसनविषये प्रश्नमाहअपि चेत्यादि। अन्यच्चेत्यर्थः ॥३॥ गङ्गाधरः-तमित्यादि। तमित्यग्निवेशम्। एवमित्यादि। एवमुक्तप्रकारेण प्रकृत्याद्यसामान्यवतां विभिन्नप्रकृत्यादिकानामपि एभिरुक्तः प्रकृत्यादिभिः प्रकृयाहारदेहबलसात्म्यसत्त्ववयोभिर्भावरन्ये ये सामान्या मनुष्याणां भावाः तद्वैगुण्यात् तेषां सामान्यानां भावानां वैगुग्यात् समानकालाः क्षणमुहूर्तसंवतसरादिरूपकालेन समानकालाः प्रायेण युगपदनेकजनमरणात। ननु के ते प्रकृत्यादिभिन्नाः सामान्यरूपा भावा इत्यत आह --ते वित्यादि । वायुरिति वहिश्चरो वायुनं तु शारीरः॥४॥ गङ्गाधरः-तद् यथेत्यादि। अतिस्तिमितमत्यामिव लक्ष्यते अतिशीतं वा 'कृतम्' इति वदन्ति। न हि वचनकाल एव औपधीनामुद्भरणं सम्भवतीति । एकनेत्येक जातीयेन। असमानप्रकृत्यादीनां समानकारणत्वाभावान्न तुल्यरूपो व्याधिर्भवितुमर्हतीति प्रभार्थः ॥३॥ चक्रपाणिः-समानलिङ्गा इति तुल्यलिङ्गाः। यथत्तुं विषममिति ऋत्वननुरूपम् । अपगत For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy