SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१६ चरक-संहिता। ( अवाकशिरसीयमिन्द्रियम् स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम् । श्यावा शुष्काथवा शूना प्रेतजिह्वा विसर्पिणी ॥ १३ ॥ दीर्घमुच्छस्य यो ह्रस्वं नरो निश्वस्य ताम्यति। उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ॥ १४ ॥ हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम् । भवत्यायुःक्षये क्रूरमथवापि भवेन्मृदु ॥ १५ ॥ घट्टयन् जानुना जानु पादावुद्यम्य पातयन् । योऽयास्यति मुहर्वक्तमातुरो न स जीवति ॥ १६ ॥ दन्तैश्छिन्दन् नखाग्राणि नखैश्छिन्दन् शिरोरुहान् । काष्ठेन भूमिं विलिखन् न रोगात् परिमुच्यते ॥ १७॥ विकृत्या स्वभावं विना पङ्कसंवृताः क्लेदयुक्ताः, स रोगान् विहायारोग्यं नाश्नुते ॥१२॥ गङ्गाधरः-स्तब्धेत्यादि। यस्य जिह्वा स्तब्धा निश्चला निश्चेतना स्पशरसानभिशा गुर्वी परिपुष्टा कण्टकोपचिता भृशं कण्टकाकारैरुपचिता व्याप्ता श्यावा शुष्का अथवा शूना शोफवती एवं विसर्पिणी वहिनिर्गता सा प्रतजिह्वा प्रतस्याचिरान्मरिष्यतो जिह्वा ॥१३॥ गङ्गाधरः-दीर्घमित्यादि। यो रोगी नरः पूर्व दीर्घमुच्छ्स्य पश्चात् इस्वं निश्वस्य ताम्यति, तमुपरुद्धायुषं क्षीणायुष झाला धीरः परिवज्जयेत् ॥ १४ ॥ गङ्गाधरः-हस्तावित्यादि। आयुःक्षये नराणां हस्तादिकमतिशीतलं भवति अथवा क्रूरं भवति अपि वा मृदु भवति ॥ १५ ॥ गङ्गाधरः-घट्टयन्नित्यादि। य आतुरो नरो जामुना जानु घट्टयन पादौ च उद्यम्य उच्चैः कृता क्षिप्ता पातयन् मुहुर्वारंवारं वक्त्रम् अपास्यति अपाक्षिपति, स न जीवति ॥१६॥ गङ्गाधरः-दन्तैरित्यादि। रोगी नरो दन्तनखाग्राणि च्छिन्दन् नखैः शिरोरुहान् केशान् च्छिन्दन् काष्ठेन भूमिं विलिखन रोगान परिमुच्यते ॥१७ धकपाणिः-अस्थिषत श्वेता अस्थिश्वेताः। विसर्पिणी वहिनिर्गता। निश्वस्येति अन्तरो For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy