SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ आत्रेयभद्रकाप्योया ४८८ चरक-संहिता। पाण्ड्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगन्दराणाम् । मूर्छामदाध्मानगलग्रहाणां पाण्डामयस्यामविषस्य चैव ॥ किलासकुष्ठग्रहणीगदानां शोफाम्लपित्त-*-ज्वरपीनसानाम् । सन्तानदोषस्य तथैव मृत्यो विरुद्धमन्नं प्रवदन्ति हेतुम् ॥७२॥ एषां खलु परेषाञ्च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतीघातकरा भवन्ति। यथा वमनं विरेचनं द्रव्यसहजान्येवोपयोज्यानि न संयोगादित उपयोक्तव्यानि रसद्वन्द्वादीनां विरुद्धबात् इति। न तु तत् सबैमहितायोपदिश्यत इति यदुक्तं, तत् कस्मै कस्मै अहितायेति ? अत उच्यते-पाण्ड्यान्ध्येत्यादि। पाण्ड्य क्लैव्यं चतुविधं वक्ष्यते। सन्तानदोषस्येति-मृतवत्सादिदोषस्य तथान्यविधदोषस्य । एषां वैरोधिकानां द्रव्यान्तरयोगात् न विरुद्धता भवति। यथा घृतमधुशकरा इति त्रयं न विरुद्धम् ॥७२॥ गङ्गाधरः-ननु वैरोधिकाहारजव्याधीनां प्रतीकाराः के भवन्तीति ? अत उच्यते-एषामित्यादि । एषां पाड्यान्ध्यादीनामपरेषामनुक्तानाश्च वैरोधिकाहानिमित्तानां व्याधीनां प्रतीकारा इमे वक्ष्यमाणा भावा वमनादयो भवन्ति । इमे के भावा इति १ अत उच्यते-- तद्यथेत्यादि । संशोधनार्थं वमनं विरेचनश्च । पाण्ड्य नपुसकता, सन्तानदोषो मृतवत्सत्वादिः एतच्च वैरोधिककथनं विशेष. वचनेन बाध्यते. तेन लशुनस्य क्षीरेण पानं क्वचिन्न विरोधि, यदुक्त-'साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम् । क्षीरोदकेऽर गुणिते क्षीरशेषञ्च पाययेत्” ॥ तथा 'मूलकस्वरसं क्षीरम्” इत्यादिप्रयोगेन्नेयम् ; किंवा अनेकद्रव्यसंयोगादन विरोधिनामविरोधः, विरोधिमात्रसंयाग एव * शोफाम्लपित्तेत्यन्त्र शोषास्रपित्तेति चक्रः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy