SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ अध्यायः ] सूत्रस्थानम् । हदह तद्विरोधिनाञ्च द्रव्याणां संशमनार्थमुपयोगस्तथाविधैश्व द्रव्यैः पूर्वमभिसंस्कारः शरीरस्येति ॥ ७३ ॥ भवति चात्र । विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् । वमनं शमनञ्चैव पूर्वं वा हितसेवनम् ॥ ७४ ॥ तत्र श्लोकाः । मतिरासीन्महर्षीणां या या रसविनिश्वये । द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाया ॥ तद्विरोधिनाञ्च द्रव्याणां सशमनार्थमुपयोगः । यद्यद्विरुद्धं द्रव्यमुपयुक्तं भवति तद्विरुद्धद्रव्याणां विरोधीनि यानि द्रव्याणि भवन्ति तेषामुपयोगः प्रयोगः कत्तेव्यः । तथाविधश्व द्रव्यैस्तत्तद्विरुद्धद्रव्यविरोधिद्रव्यैरभ्यवहृतैः शरीरस्य अभिसंस्कारो भावविरुद्धद्रव्याहार जदोष हरगुणाधानमिति ।। ७३ ।। गङ्गाधरः— तत्र प्रमाणश्लोकः । भवति चात्र । विरुद्धेत्यादि । पूर्व्वं वा हितसेवनं शरीरस्य तत्तद्विरुद्धद्रव्यविरोधिद्रव्य सेवनेन पूर्व्वमभिसंस्कार इति व्याख्यातम् ॥ ७४ ॥ गङ्गाधरः—अथाध्यायार्थसंग्रहार्थमाह-- तत्र श्लोका इति । मतिरिति रसविनिश्चये भद्रकाप्यादीनां रसस्यैकत्वादिमतिः, एक एवेत्यारभ्य उपदेक्ष्याम इत्यन्तेन । ततोऽग्र े त्यारभ्य तत्कलमित्यन्तेन गुणकम्मेभ्यां द्रव्याणि । ततो भेदश्षामित्यारभ्य संख्यामतिपतन्ति हीत्यन्तेन रसाश्रया त्रिषष्टिरसभेदेन विरोधी भवति यत्तु मधुन उष्णेन वमनेन संयुक्तस्य मदनफलादिद्रव्यसंयोगे ऽविरोधार्थ मुक्तमपगमनादि, तन्मधुनो द्रव्यान्तरसंयोगेऽप्युष्णसम्बन्धविरोधित्वेन, यतः विषान्वयं मधु, विषस्य चोष्णं विरोधि; लशुनादीनान्तु द्रव्यान्तरासंयोगे सत्येव मेलको विरुद्ध इति शास्त्रवचनात् नीयते । तद्विरोधिनामिति पाण्ड्यादिहराणाम् तथाविधैरिति विरुद्धाहारजन्यव्याधिविरुद्धैः; अभिसंस्कार इति सततोपयोगेन शरीरभावनम् ; किंवा तथाविधैरिति रसायन प्रयोगः एतच्च अनागतव्याधिचिकित्सितं ज्ञेयम् ॥ ७२ - ७४ ॥ ; चक्रपाणिः -- संग्रहे द्रव्यसंख्या रसाश्रया इति 'भेदश्चैषाम् इत्यादिना, रससंख्या हि पर For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy