SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १म अध्यायः ] www.kobatirth.org つ सूत्रस्थानम् । ८५ ; अग्राह्यवस्त्रलक्षणाभावरूपस्य ग्राह्यवस्त्रलक्षणस्य ग्राह्याणां वस्त्राणां प्रमेयाणां सिद्धिरिति । तत्रोभयस्य ग्राह्यग्राह्यस्य वस्त्रस्य सन्निधाने सति कञ्चित्पुरुष ' कश्चित् पुमान् प्रेरयति, अलक्षितानि वासांस्यानयेति अलक्षितानि ग्रहणयोग्यलक्षणाभाववन्ति वस्त्राण्यानयेति । इत्येवं प्रयुक्तः प्रेरितः पुरुषो येषु वासःसु ग्राह्यलक्षणानि न भवन्ति तानि लक्षणाभावेन ग्राह्यलक्षणेतरलक्षणेन प्रतिपदाते नेमानि ग्रहणयोग्यलक्षणानीति जानीते; ज्ञाखा तान्यानयति । ग्राह्यलक्षण भिन्नलक्षणमभाव एव तद् ग्राह्यवस्त्रप्रतिपत्तिहेतुः प्रमाणमेवेति । कस्यचिद ग्राह्य' लोहितवस्त्रं यन्न लोहितं तदानयेति प्रेरितो लोहितरहितं नीलादिकमानयतीति भावः । अत एवादिवचनमुपन्यस्य समाधत्ते । "असत्यर्थे नाभाव इति चेन्नान्यत्र लक्षणोपपत्तेः । " अस्य भाष्यम् – “यत्र भूखा किञ्चिन्न भवति तत्र तस्याभाव उपपद्यते । अलक्षितेषु च वासःसु लक्षणानि भूत्वा (लक्षितेषु) न भवन्ति तस्मात् तेषु लक्षणाभावोऽनुपपन्न इति चेत् न अन्यलक्षणोपपत्तेः । यथायमन्येषु वासःसु लक्षणानामुपपत्तिं पश्यति, नैवमलक्षितेषु । सोऽयं लक्षणाभावं पश्यन्नभावेनार्थं प्रतिपदाते इति ।” भाष्यस्यास्यानुव्याख्यानम् । न सत् असदिति अवस्तुभूतेऽथं ऽभिधेयेऽभावशब्दो न वर्त्तते । कथं ? तत् विवृणोति भाष्येण यत्रेत्यादि । यत्र स्थले किञ्चिद्वस्तु भूखा पुनः किञ्चिन्न भवति तत्र स्थले तस्य वस्तुनोऽसद्भावोऽभाव उपपदाते । यथामे फले जायमाने रूपं श्यामो भूत्वा पक न भवतीत्यभावः श्यामस्य । वासःसु पुनः अलक्षितेषु अग्राह्यलक्षणानि भूला किञ्चिन्न भवतीत्येवं न दृश्यते, लक्षितेषु वस्त्रेषु लक्षणानि न भवन्ति, भवन्ति चालक्षणानीति । तस्मादेकस्मिन् भूत्वाऽन्यस्मिन्न भवतीत्यस्मात् तेषु लक्षितेषु ग्राह्ये षु वस्त्रेषु लक्षणाभावोऽनुपपन्न इति । स खल्वस्तुनि अर्थेऽभिधेयेऽभावशब्दो न वर्त्तते इति चेत् ? नान्यलक्षणोपपत्तेः । यत्रैकस्मिन् भूत्वा तत्रैव पुनस्तत् किञ्चिन्न भवतीति वस्तुनोऽसद्भावमात्रमभावो नासति खल्ववस्तुन्यर्थेऽभिधेयेऽभावशब्दो न वर्त्तते इति चेन्न । कस्मात् ? अन्यलक्षणोपपत्तेः । Acharya Shri Kailassagarsuri Gyanmandir पर्युदासना भावादन्यः अभाव इति व्युत्पत्त्या ससमभिव्याहृतपदार्थादन्यलक्षणो वस्तुभूतश्चावस्तुभूतश्यं त्युभयस्योपपत्तेः । यथा “अनचि च" इति सूत्रे पर्युदासनमा खल्वचोऽन्यस्मिन् वस्तुभूते हलि चावस्तुभूतेsaसाने च य र स्थाने रेफवज्जं द्वे रूपे वा भवत इति । aaaa दध्यत्रेत्यादौ हलि, वाक वागित्यादाववसाने । तथैवायं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy