SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ चरक संहिता | [ दीर्घञ्जीवितीयः आदकस्य सत्ताग्रहणात् प्रस्थस्येति । अभावो विरोधी । अभूत भूतस्य । अविद्यमानं वर्ष विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम् । विधारके हि वाय्वभ्रसंयोगे गुरुत्वादपां पतनकम्मे न भवतीति । सत्यमेतान्यपि प्रमाणानि न तु प्रमाणान्तराणि । प्रमाणान्तराणि च मन्यमानेन प्रतिषेध उच्यते। सोऽयम् । - शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच्चाप्रतिषेधः । अनुपपन्नः प्रतिषेधः । कथम् ? आप्तोप - देशः शब्द इति न च शब्दलक्षणमैतिह्याद व्यावर्त्तते । सोऽयं भेदः सामान्यात् संगृह्यते इति । प्रत्यक्षेणाप्रत्यक्षस्य सम्बन्धस्य प्रतिपत्तिरनुमानं तया चार्थापत्तिसम्भवाभावाः । वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद ग्रहणमर्थापत्तिरनुमानमेव । अविनाभाववृत्ता च सम्बद्धयोः समुदाय - समुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः । तदप्यनुमानमेव । अस्मिन् सतीदं नोपपदात इति विरोधित्वे प्रसिद्धे कार्यानुत्पत्तया कारणस्य प्रतिबन्धकमनुमीयत इति । सोऽयं यथार्थमेव प्रमाणोद्देश इति । सत्यमेतानि च प्रमाणानि न तु प्रमाणान्तराणीत्युक्तम् ।" अथार्थापत्तत्रादीनां प्रामाण्यपरीक्षानन्तरमभावस्य प्रामाण्यं परीक्षितं तत्रैव । तद् यथा भाष्यम् - अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते । कथमिति !” “नाभावप्रामाण्यं प्रमेयासिद्धः ।" अस्य भाष्यम् - " अभावस्य भूयसि प्रमेये लोकसिद्धेवजात्यादुच्यते नाभावप्रामाण्यं प्रमेयासिद्धेरिति ।” भाप्यस्यास्यानुव्याख्यानम् । - अभावस्य भावविरोधिनो भावस्य भूयसि प्रमेये सिद्ध सत्यपि भावानां भावत्ववैजात्यादवस्तुत्वादुच्यते नाभावप्रामाण्यं प्रमेयासिद्ध ेरिति । अथ भाष्यम् । - " अथायमर्थ बहुत्वादकदेश उदाहियते" "लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयासिद्धेः ।" सूत्रस्यास्य भाष्यम् । – “ तस्याभावस्य सिध्यति प्रमेयम् । कथम् ? लक्षितेषु वासः स्वनुपादेयेषु पादेयानामलक्षितानामलक्षणलक्षितवालक्षणाभावेन लक्षितत्वादिति । उभयसन्निधावलक्षितानि वासांस्यानयेति प्रयुक्तो येषु वासःसु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते प्रतिपदा चानयति प्रतिपत्तिहेतुश्च प्रमाणमिति ।” भाष्यस्यास्यानुव्याख्यानम् । - तस्याभावस्य प्रमेयं सिध्यति, कथमिति प्रश्नः । तत्रोत्तर लक्षितेष्वित्यादि । वासःसु वस्त्रेषु खल्वग्राह्येषु ग्रहणयोग्यलक्षणरहितेषु तल्लक्षणेन लक्षितेषु उपादेयानां प्राह्माणां वस्त्राणां तलक्षणेनाग्राह्यवस्त्रलक्षणेन अलक्षितानामलक्षणेनाग्राह्यवस्त्रलक्षणभिन्नलक्षणेन खल्वग्राह्यवस्त्रलक्षणाभावेन लक्षितत्वात् । तस्याभावस्य For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy