SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६३६ चरक संहिता | संख्यास्य गणितं योगः सहसंयोग उच्यते । द्रव्याणां द्वन्द्वसव्वैक-कर्म्मजोऽनित्य एव च ॥ Acharya Shri Kailassagarsuri Gyanmandir [ आत्रेयभद्रकाप्यीयः हि द्रव्यं संयुज्यते परिमीयते संस्क्रियते । न समवायेऽप्यन्तर्भवति । स पृथग्भावो भावानामियन्तु योजना न तथा । पृथग्भूतानामपि योजना पदानां दृश्यते । तस्मात् तेभ्यः पृथगुक्ता युक्तिः । योजनायान्तु युज्यते इति पाठान्तरम् ।। ३५ ।। गङ्गाधरः– अथ सङ्ख्या- प्रत्यादि । सङ्ख्या स्याद्ाणितम् । गण्यते ह्येवं लोके । अयमेक इत्यभ्यासनिरपेक्षा खत्वेकत्वं संख्या । सैवाभ्यासगुणवती द्विखादिश्च संख्याभिधीयते । यथा पुनरयमेकोऽपरश्चैक इति द्वौ । तथायमेकोsपरश्चैकः परश्चैक इति त्रयः । इत्येवमभ्यासगुणः परापरत्ववती सैकसङ्ख्या द्विवादिः संख्या । द्वावेतावेक एतौ चापरौ द्वावेक इति द्वौ । arat तथा चैते त्र एकस्त्रयश्चापरे द्वे ते एक इति द्वौ त्रयः । एवं त्रयस्त्रयः । त्रयश्चत्वार एकश्चत्वार एतेऽपरे लेकवार इति द्वौ चत्वारः । इत्येवं संख्यावती च संख्या द्विलादिर्न खेक एक इति । एकत्वस्यैकत्वाभावात् । कणादेन चोक्तं- “पृथक्त कवयोरेकखपृथक्त्वाभावो ऽणुख महत्त्वाभ्यां व्याख्यातः” इति । पृथक्त्वस्यैकत्वपृथक्त्वाभावः । एकत्वस्य चैकलपृथक्त्वाभावो न तु पृथक्त्वस्य एकत्वाभाव एकत्वस्य पृथक्त्वाभाव इति यथासङ्ख्ाम् । ययाणुलमहत्त्वयोरणुखमहत्त्वाभावः । अणुवस्याणुत्वमहत्त्वाभावो महत्त्वस्याणुखमहत्त्वाभाव इति । तथा चैवं न प्रतीयते द्विलात् पृथगेकलं न वैकत्वमेकमिति । तथा पृथगन्यतः For Private and Personal Use Only यथासम्भवं कालदेशकृतमेवेहोपयोगादुपचरितमप्यभिहितं यतः गुणे मानादौ न गुणान्तरसम्भवः । युक्तिश्चेत्यादौ योजना दोपाद्यपेक्षया भेषजस्य समीचीनकल्पना, अत एवोक्तम्'या तु युज्यते', १', या कल्पना यौगिकी स्यात्, सा तु युक्तिरुच्यते, अयौगिकी तु कल्पनापि सत युक्तिर्नोच्यते पुत्रोऽप्यपुत्त्रवत् । युक्तिश्चेयं संयोगपरिमाणसंस्कारायन्तर्गताप्यत्युपयुक्तत्वात् पृथगुच्यते ॥ ३४ ॥ ३५ ॥ चक्रपाणिः - संख्यां लक्षयति-संख्या स्याद्गणितमिति । गणित मिहैकद्विन्रीत्यादि । संयोगमाह-योग इत्यादि । सहेति मिलितानां द्रव्याणां योगः प्राप्तिरित्यर्थः, सहेत्यनेने हाकिञ्चित्करं परस्परसंयोगं निराकरोति । तद्भेदमाह - द्वन्द्वरेत्यादि । तत्र द्वन्द्वकर्म्मजो यथा-: - युध्यमानयोर्मेषयोः, सव्वंकर्म्मजो यथा- भाण्डे प्रक्षिप्यमाणानां मााणां बहुलमाषक्रियायोगजः, एककर्म्मजो यथा - वृक्षवायसयोः ; अनित्य इति संयोगस्य कर्म्मजत्वेनानित्यत्वं दर्शयति ।
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy