SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३४ चरक-संहिता। आत्रेयभद्रकाप्यीयः परापरत्वे युक्तिश्च संख्या संयोग एव च । विभागश्च पृथकत्वञ्च परिमाणमथापि च ॥ संस्कारोऽभ्यास इत्येते गुणा ज्ञयाः परादयः । सिध्युपायाश्चिकित्साया लक्षणैस्तान् प्रवक्ष्यते ॥ ३४ ॥ देशकालवयोमान-पाकवीर्यरसादिषु । परापरत्वे युक्तिस्तु योजना या तु युज्यते ॥ ३५॥ गङ्गाधरः-नन्वेवं रसानां विकल्पने क उपाय इति ? अत आह--परापरखे इत्यादि। इत्येते परादयो दश गुणाश्चिकित्सायाः सिद्धावुपायाः यथा कुवन्ति स उपाय इति हयाः! तान् परादीन लक्षणः प्रवक्ष्यते ब्याख्यास्यते ॥३४॥ गङ्गाधरः-क्रमेण लक्षणमाह-दशेत्यादि। देशादिपु परापरखे युज्यते । परश्वापरश्च तयोर्भाव इति परापरले परतापरखे। परखं प्रथयादुत्तरखम् । अपरवं तत्परतः परवमिति पर परस्य परम् । तच्च देशादिपु युज्यते। देशस्तु ऽपि व्यक्तो नोपलभ्यते, किंतर्हि, अव्यपदेश्यतया च्छायामात्रेण कार्यमात्रेण वा मीयते, सोऽनुरस इति वाक्यार्थः ; यतश्च मधुरादय एव व्यक्तत्वायत्तत्वाभ्यां रसानुरसरूपाः, अतः अध्यक्तनामा सप्तमो रसो नास्ति ; अयञ्चार्थः ----पूर्व प्रतिषिद्धोऽप्यनुगुणस्प हेतुप्राप्या पुनर्निषिध्यते ; अन्ये रवाहुः-शुष्कस्य चेत्यनेन यस्य द्रव्यल्प शुष्कस्य चाईस्य चोपयोगः, तत्र शुष्कावस्थायां यो व्यक्तः, स रस उच्यते, यरत्वावस्थायां व्यक्तः सन् शुष्कावस्थायां नानुयाति, नासौ रस, किन्त्वनुरसः ; यथा-- पिप्पल्या आया मधुरो रसो व्यक्तः, शुष्कायाः पिप्पल्याः कटुकः, तेन कटुक एव रसः पिप्पल्याः, मधुरस्त्वनुरसः ; यस्तु द्राक्षादीनामावस्थायां शुष्कावस्थायाञ्च मधुर एवेति, तत्र विप्रतिपत्तिरेव नास्ति, न, तत्र मधुर एवं रसः । नित्याईप्रयोज्यानान्तु काञ्जिकतक्रादीनामादौ व्यक्तो य उपलभ्यते, स रसः, अनु चोपलभ्यते यः सोऽनुरसः, चुक्रतिक्तत्वादिस्तथावस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इव मधुरः, सोऽनुरस इति, किन्त्वापि पिप्पली मधररसैवेति पश्यामः, यतः वक्ष्यति-"इलेप्मला मधुरा चार्ली गुर्वी स्निग्धा च पिप्पली” इति । मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकत त्यानुपपन्नानि ; तेन आर्द्रा पिप्पली व्यक्तमधुररसैव, शुष्का तु मधुरानुरसेति युक्तम् ॥ ३३ ॥ चक्रपाणिः-सम्प्रति पूर्वोक्तगुर्वादिगुणातिरिक्तान् परत्वापरत्वादीन् दश गुणान् रसधर्मबेनोपदे टच्यानाह-परेत्यादि। तच्च परत्वं प्रधानत्यम्, अपरत्वमप्रधानत्वम् ; तद्विवरणं देशकालेत्यादि। तत्र देशो मरुः परः, अनूपोऽपरः ; कालो विसर्गः परः, आदानम्परः ; वय For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy