SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः सूत्रस्थानम् । ८१६ तस्मान्न संस्कृष्टानां रसानां कम्मोपदिशन्ति बुद्धिमन्तः ॥ ८॥ __ तच्चैव कारणमवेक्षमाणाः पराणां रसानां परस्परेणासंस्कृष्टानां लक्षण पृथकत्वमुपदेक्ष्यामः। अयं तु तावद् द्रव्यभेदमभिप्रंत्य किश्चिदभिधास्यामः ॥ १६ ॥ पण्णामभिनित्तो प्रधानभूतानां प्रकृतीनां सोमगुणातिरिक्तपञ्चभूतानां प्रधानले तत्र तत्र गुणीभूतरसानां प्रकृतयो या अल्पांशभूता भूम्यग्निगुणवहुलादिभूतद्वन्द्वास्तासामपरिसङ्घ प्रयत्वं न भवति । पञ्चानामेव भूतानामंशन्यूनाधिक्यादिविशेषात् तथाविधापररसोत्पत्तेः। इति। तस्मात् संसृष्टानां रसानां कम्मे बुद्धिमन्तो नोपदिशन्ति ॥ १८ ॥ गङ्गाधरः--तच्चेत्यादि। तच्च कारणं प्रधानरसानामुत्पत्तौ गुणीभूतरसानामपि प्रकृतय एवांशाल्पाधिकभावेन संसृष्टा गुणीभूतरसानुत्पादयन्ति । पञ्चैव भूतानि नापरिसंप्रयाः प्रकृतय इत्येवं कारणमवेक्षमाणा वयं परस्परेणासंसृष्टानां पण्णामेव रसानां लक्षणं पृथक्वेनोपदेक्ष्यामः। न परस्परेण संसृष्टानां. पृथगलक्षणेनैव तेषां गुणीभूतानामभिज्ञानसिद्धेः। अग्रे तु तावद् द्रव्यभेदमभिप्रेत्य किश्चिदभिधास्यामः पश्चाद्रसम् । इति ॥१९॥ निवृत्ता घृतक्षीरादी द्रव्ये भवन्ति, तथापि न तेषां गुणा गुरुलध्वादयः प्रकृतयो वा मधुरादीनां या या आयुष्यत्वरसादिवर्द्धकत्वाद्यास्ताः असंख्येया भवन्ति किन्तु, य एव मधुरादीनां प्रत्येकं गुणाः प्रकृतयश्च उद्दिष्टाः, त एव मिश्रा भवन्ति ; किं वा गुणप्रकृतीनामिति मधुरादिषडगुणस्वरूपाणाम् इत्यर्थः । तेन रसस्य रसान्तरसंसर्गे दोषाणामिव दोषान्तरसंसर्गे रसानां नापरिसंख्येत्वम् इत्यर्थः ; प्रकृतिशब्देन कर्म वोच्यते, तेन गुणकर्मणामित्यर्थः ; मधुरादीनामवान्तराखात् अविशेपोऽपि परस्परसंसर्गकृतो ज्ञयः। यत एव हेतो रसानां संमृ टानां नान्ये गुणकर्मणी भवतः, अत एव संसृष्टानां रसानां पृथक कर्म शास्त्रान्तरेऽपि नोक्तमित्याह-तस्मादित्यादि। कर्मशब्देनेह गौरवलाववादिकारकत्वादयो रसरक्तादिजननादयोऽपि बोद्धव्याः ; न केवलमन्यशास्त्रकारे रसानां संसृरानां कर्म नोपदिष्टं, किन्तु वयमपि नोपदेश्याम इत्याहतच्चैवेत्यादि। तच्चैव कारणमिति परस्परसंसर्गेऽपि रसानामनधिकगुणकर्मत्वं ; लक्षणेन पृथक्त लक्षणपृथक्त; लक्ष्यते येन तल्लक्षणम्-"अतस्तु मधुरो रसः” इत्यादिना ग्रन्थेन, तथा "स्नेहनप्रीणनह्लादन" इत्यादिना यद् वाच्यं, तत् सर्च गृह्यते ; किं वा, लक्षगशब्देन "मधुररस” इत्यादिग्रन्थवाच्यं लक्षणमुच्यते ; पृथक्त ञ्च, रसे भेदज्ञानार्थ यदवक्ष्यते For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy