________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ आत्रेयभद्रकाप्यीयः विशेषानेवाश्रयते * न च तस्मादन्यत्वमुपपद्यते। परस्परसंस्पृष्टभूयिष्टत्वात् ॥ १६॥१७॥
न चैषामभिनिवृत्तेर्गुणप्रकृतीनामपरिसंख्येयत्वं भवति । विशेषान् संस्कारविशेषानाश्रयते। यथा खल्वेको मधुरो रस इविक्षु. बालिकाकाण्डेक्षुप्रभृतीनाश्रयविशेषानाश्रयते। एवमम्लो बदरदाहिमामलकादीन् । लवणः सैन्धव सौवर्चलादीन् । कटुकः पिप्पलीमरिचशुष्ठीचव्यादीन् । तिक्तो निम्बपटोलपत्रवेत्राग्रादीन। कपायो हरीतकीविभीतकी प्रभृतीन्। न च तस्मान्मधुरादम्लादितो वाऽन्यत्वमन्यरसखमुपपद्यते उपगच्छति। कस्मात् तत्र तत्रेविलवालिकादिषु मघरभेद उपलभ्यते इति ? अत उच्यते-परस्परेत्यादि। तत्र तत्रापररसस्य कस्यचित् कस्यचिदम्लादेः परस्परसंमृष्ट मधुरादिभूयिष्ठखान्मधुरादिरेव रस उच्यते न तस्मा. दन्यो भवतीति। एवं गुणकर्म विशेपानपि नद्रसान्तरसंसर्गादाश्रयते । संस्कारद्रव्यविशेषसंसर्गादपि न ततोऽन्यो भवति ॥ १६॥१७॥
गङ्गाधरः-ननु चैवं चेत् तदा पुनरिक्षुकाण्डे क्षुप्रभृतीनामारम्भकाणां भावानामंशन्यूनाधिक्यादितस्तदुत्पत्तावेव तथा तथा मधुरादिभावोऽभिनिर्वर्तत इति तथाविधस्तथाविधो रसः पृथक् पृथगेव भवति ततोऽपरिसंङ्खया रसाः पटसञ्चातिवर्तन्ते । इति। अत उच्यते-न चैपामित्यादि । एषां मधुरादीनां विशेषापरिसंख्येयत्वादित्याश्रयादिभेदस्यापरिसंख्येयत्वात् : अत्र हेतुमाह एकैकोऽपि हीत्यादि ! एषामाश्रयगुणकर्मसंस्वादानां विशेपानेकैकोऽपि मधुरादिराश्रयते ; न च तस्मादाश्रयादिभेदादन्यत्वमाश्रितस्य मधुरादेर्भवति ; एवं मन्यते--- यद्यपि शालिमुद्धृतक्षीरादयो मधुराश्रयाभिन्नास्तथापि तत्र मधुरत्वजात्याक्रान्त एक एव रसो भवति बलाकाक्षीरकार्पासादिपु शुकुवर्ण इवेति ; तथा. गुणानां गुरुपिच्छिलास्निग्धादीनाम् अन्यत्वेऽपि कर्मणां वा रसादिवर्द्धनायुर्जननवर्णकरणादीनां भिन्नत्वे सति न मधुररसरयान्याकम, यतः, एक एब मधरस्तत्तद्गुणयुक्तो भवति तत्तत्कर्मकारी चेति को विरोधः, तथा, मधुरस्यावान्तरास्वादभेदेऽपि मधुरत्वजात्यनतिक्रमः, कृष्णवर्णावान्तरभेदे यथा कृष्णत्वानतिक्रमः। ननु मैवं भवत्वपरिसंग्ग्रेयत्वं रसानां परस्परसंयोगात् तु य आस्वादविशेषः स कार्यविशेषकरोऽपि, न हि मधुराम्लेन क्रियते, तन्मधुरेण वाम्लेन वा शक्यम् , अतः, तेन परस्परसंयोगेनापरिसंख्येयत्वं भविष्यतीत्याह- परस्परेत्यादि । संसमिति भावे क्तः, तेन संसर्गभूयिष्टत्वादेषां मधुरत्वादीनामभिनिङ्घत्तेन च गुणप्रकृतीनाम् असंख्येयत्वमिति योजना। अयमर्थः--यद्यपि रसाः परस्परसंसर्गेणातिभूयसा युक्ताः सन्तोऽभि
* विशेषापरिसंख्येयत्वात् इत्यधिकः पाठश्चक ।
For Private and Personal Use Only