SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः ६११ सूत्रस्थानम् । पञ्च रसा इति कुमारशिरा भरद्वाजः। भौमौदकाग्नेयवायव्यान्तरीक्षाः ॥७॥ षड़सा इति वा•विदो राजर्षिः। गुरुलघुशीतोष्णस्निग्धरुक्षाः ॥८॥ सत रसा इति निमिविदेहः। मधुराम्ललवणकटुतिक्तकषायनाराः ॥६॥ गङ्गाधरः-पञ्चेत्यादि। शठानघः कुमारशिरा भरद्वाजः खलु यो भावोऽभिव्यक्तः सन् रसनग्राह्योऽयों भवति स रस एक एवेति सत्यम् । अभिव्यक्तस्तु सन् यो रसनग्राह्योऽर्थो भवति स पुनभौ मौदकाग्नेयवायव्यान्तरीक्षभेदेन पञ्चधाऽभिव्यज्यते। तस्मात् पञ्च रसा इत्युवाच। वक्ष्यते च सोमगुणाति. रेकान्मधुरो रसः इति । पूर्वाध्याये चाभिहितम्- “रसनाथों रसस्तस्य द्रव्यमापः क्षितिस्तया। नित्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः॥” इति ॥ ७ ॥ गङ्गाधरः-पडित्यादि । अथ वाय्योविदो राजर्षिः खलु यो भावोऽभिव्यक्तः सन रसनग्राह्योऽर्थो भवति स रस एक एवेति सत्यम । सोऽभिव्यक्तस्तु सन् यो रसनग्राह्योऽर्थी भवति स गुरुलधुशीतोष्णस्निग्धरुक्षभेदेन षड्धाऽभिव्यज्यते । तस्मात् पट् रसा इत्युवाच। कश्चिद्धि रसो गुरुश्विरेण पच्यते, कश्चिल्लघुः शीघ्र पच्यते, कश्चिच्छीतः शैत्यं जनयति, कश्चिदुष्ण औष्ण्यं जनयति, कश्चित् स्निग्धः स्नेहयति, कश्चिद रुक्षो रुक्षयतीति ॥ ८॥ गङ्गाधरः-सप्तेत्यादि। अथ निमिविदेहो राजर्षिः खलु यो भावोऽभिव्यक्तः सन् रसनग्राह्योऽथों भवति स रस एक एवेति सत्यम् । स खलु अभिव्यक्तस्तु सन् यो रसनग्राह्योऽर्थो भवति स मधुरामललवणकटुतिक्तकषायक्षारभेदेन सप्तधाऽभिव्यज्यते। तस्मात् सप्त रसा इत्युवाच । इति ॥९॥ वृहणयोः कर्ता, परस्परविरोधादकर्ता वा। स्वादुरित्यभीरः, हित इत्यायत्यनपकारी। भाश्रीयत इत्याश्रयो द्रव्यम् ; गुणाः सिग्धगुर्वादयः, कर्म धातुवर्द्धनक्षपणादि ; संस्वादो रसानामवान्तरभेदः, एषां विशेषाणां भेदानामित्यर्थः । तत्र द्रव्यभेदादाधारभेदेनाश्रितस्यापि रसस्प भेदो भवति, आश्रयो हि कारणं, कारणभेदाच्च कार्यभेदोऽवश्यं भवतीत्यर्थः, गुर्वादिगुणभेदास्तथा कर्मभेदाश्च रसकृता एव ; ततश्च कार्यभेदादवश्यं कारणभेद इति पूर्वपक्षाभिप्रायः। संस्वाद For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy