________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः] सूत्रस्थानम् ।
१०६ इति । तत्र जिह्वास्थं खगिन्द्रियं शीतोष्णादिस्पर्श गृह्णाति। मधुराम्लादिकं रसनेन्द्रियं गृह्णाति न शीतोष्णादिकम् । प्रागुत्पत्तौ हि यदा भूतादिसमाख्याततामसादहकारात् पञ्चशब्दतन्मात्रादीनि गगनादीनि पञ्चमहाभूतानि जायन्ते, तदैव सहोदकेन भूतेन जातो रसः साधारणरूपः । तमेव भूतान्तरसंयोगेन संहते द्रव्ये जायमानेऽभिव्यक्तं जिह्वन्द्रियविषयं भावं कुशला आचक्षते । तस्मादेक एव रसो नानेकः। तद्यदुदकं प्रागजातं तदुदकात् पुनः स रसोऽनन्यो नान्य इति। तथा च रसनार्थो रस इति प्रागभिहितम् । नातोऽतीन्द्रिये तस्मिन् रसे लक्षणाप्रसङ्गः। यो हि भावोऽभिव्यक्तः सन् ग्राह्यो भवति स एवार्थसंशो भवति नानभिव्यक्तो भावोऽथ उच्यते इन्द्रियस्य योऽभिव्यक्तो रसनेन इन्द्रियेण गृह्यते स रसनार्थो रस उच्यते। न चातिप्रसङ्गो लक्षणस्य रसखे रसाभावे च जिह्वेन्द्रियार्थवाभावात्। न हि रसनेन्द्रियेण रसवं रसाभावो वा प्रत्यक्षमुपलभ्यते। रसेनैव ह्यनुमीयते रसखम् । रसाभावश्च भावरूपो गन्धादिर्न रसनेन्द्रियार्थः। अवस्तुरूपश्चाभावस्तत्तद्रसस्यासत्ता। (तस्याभावस्य भाव इति पदेन तात्तिः) स हि रसनेन्द्रियेणोपलभ्य रसमनुपलब्धयाऽनुमीयते। नास्त्यत्र निम्बे मधुरो रस इति । तस्माद्रसनेन्द्रियग्राह्यत्तिगुणखावान्तरजातिमत्त्वं रसखमित्येवं न तल्लक्षणं व्याख्यातव्यम् । तस्मिन्नतीन्द्रियस्य रसस्य रसवं न जातिः साधारणैकरूप. खात् । जातिहानेकव्यक्तिसमवायिनी। स एवाभिव्यक्तो यदानेकरूपो भवति मधुरादिविशेषस्तदा विशेषे रसवं जातिभवति न खविशेषे । तस्मिन्नविशेष रसे रसखन्तु शब्दादितन्मात्राखापेक्षो विशेषः पदार्थः । तन्मात्रावं शब्दादीनां पञ्चानां सामान्यमाकाशादीनां हि शब्दादिः, सा सा मात्रेति तन्मात्रा । सुश्रुते चोक्तम् 'आप्यो रस' इति । अनया रीत्या शब्दादीनामपि लक्षणान्यनुक्तानि वाच्यानि। श्रवणार्थः शब्दः। योऽभिव्यक्तः सन् श्रवणग्राह्योऽथों भवति सोऽर्थः शब्दः । स्पर्शनार्थः स्पर्शः। योऽभिव्यक्तः सन् स्पर्शनग्राह्यो भवति स स्पर्शनार्थः स्पर्शः । नेत्रार्थो रूपम् । योऽभिव्यक्तः सन् नेत्रग्राह्योऽर्थो भवति स नेत्रार्थो रूपम् । घ्राणार्थो गन्धः। योऽभिव्यक्तः सन् घ्राणग्राह्योऽर्थों भवति स घ्राणार्थो गन्धः। इति ॥३॥
स्वार्थिकः । जिह्वावैषयिकमिति जिह्वाग्राह्यम् । रसाभावोऽाप जिह्वया गृह्यते, अत आह भावमिति ; उदकादनन्य इति रसोदकयोरेकत्वख्यापनार्थं पूर्वपक्षत्वाद् ; दृष्टः पूर्वपक्षश्च कापिलमतेन
For Private and Personal Use Only