SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [आत्रेयभद्रकाप्यीयः एते श्रु तवयोवृद्धा जितात्मानो महषयः । वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ॥ तेषां तत्रोपविष्टानामियमर्थवती कथा। बभूवार्थविदां सम्यग्रसाहारविनिश्चये ॥२॥ एक एव रस इत्युवाच भद्रकाप्यः। यं पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वाविषयभावमाचक्षते कुशलाः। स पुनरुदकादनन्य इति ॥३॥ बाघदेशवासी वाहीकदेशीयश्च काकायनपिः। इति निमिवा?विदयो राजर्षिखादैते दश महयः श्रुतेन वयसा च वृद्धा विजिहीर्षवो विहत्तुमिच्छवश्चैत्ररथे नाम्ना रम्ये वने समीयुः संगता बभूवुः। तत्र वने खलूपविष्टानां तेषां पुनव्वेसुप्रभृतीनामर्थविदामियं वक्ष्यमाणा रसाहारविनिश्चयेऽर्थवती प्रयोजनवती कथा बभूव ॥२॥ गङ्गाधरः-का सा कथेति ? अत उच्यते-एक एवेत्यादि। तेषां मध्ये भद्रकाप्य ऋषि एक एव रस इत्युवाच। कोऽसावेको रस · इति ? अत उच्यते-यं पुनरित्यादि। कुशलाः पण्डिता यं पश्चानामिन्द्रियाथानामन्यतममेकतमं जिहन्द्रियवैषयिकं भावमाचक्षते स रस एक एव न तु द्विविधादिः जिह्वन्द्रियविषयवसामान्यात् । जिह्वावैपयिको भावश्च शीतोष्णमृदुकठिनादिश्च भावस्तत्र प्रसङ्गवारणाय। पञ्चानामिन्द्रियार्थानां मध्ये यो यो भावोऽन्य एकः परस्परविभिन्नः श्रोत्रादिग्राह्यवेन भिन्नभिन्नधर्मा तेषु मध्ये जिह्वन्द्रियवैषयिको यो भावः स रसः। शीतोष्णादिस्तु स्पर्शनेन्द्रियग्राह्यखेन भिन्नः । जिह्वायां हि त्रीणीन्द्रियाणि वर्तन्ते। वागिन्द्रियं रसनेन्द्रियं स्पर्शनेन्द्रियश्च रसप्रकरणमादौ कृतम् । मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्यर्थम् । रसेनाहारविनिश्चयो रसाहारविनिश्चयः, किंबा, "अयं रसविनिश्चयः तथापरञ्चातो विपाकानाम्' इत्यादिराहारविनिश्चयः ॥ १२ ॥ चक्रपाणिः-एक एवेत्यादि। हान्द्रयार्थानामिति निर्धारणे षष्टी। अन्यतममित्येकम्, अन्यशब्दो ह्ययमेकवचनः, यथा “अन्यो दक्षिणेन गतः, अन्य उत्तरेण,” एक इत्यर्थः, तमशब्दः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy