SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५श अध्यायः सूत्रस्थानम् । ८६७ स रजोगुणमाश्रित्य सरस्वत्या सह चतुर्मुख एव सत्यलोकस्थो ब्रह्माविर्वभूव । योऽसौ क्षेत्रज्ञः पुरुषो विष्णः स एव सत्त्वगुणमाश्रित्य लक्ष्ममा सहैष वैकुण्ठस्थो विण्णुश्चतुर्भुज आविर्बभूव । कल्पान्तमहाकल्पान्तप्राकृतप्रलयेष्वस्य हृदयाद रुद्राधिदैवतः कालो महाविष्णुहरिराविर्भूय रुद्ररूपी सन् संहृत्य जना ईनो नाम विष्णुः सन्नहिपयेथे शयानो वर्तते। इत्येष एव त्रयो देवा इत्युक्तम् । अथैष नारायणो महान् ब्रह्मा तदण्डं द्विधा कृखा तस्योद्धे नाण्डकपालेन सुवर्णमयेन स्वर्गलोकमयोऽण्डकपालेन सप्तपातालसहितां भूमि निम्ममे। मध्ये दिक्कालाभ्यां सहकीकृत्य यदिदं द्यावापृथिव्योरभ्यन्तरमन्तरीक्षं यव्योम तद्भवलोक निर्ममे। या दिक् महाभूतस्याकाशस्याधिदेवता सात्त्विकादहङ्काराबभूव तां कालेन नभोभागैरेकीकृत्याष्टौ दिशश्च निम्मेमे । शाश्वतञ्चापां स्थानं सोममण्डलं निम्ममे। एवं निर्माय सर्वतत्त्वमयात् स्वस्य शरीरात् मन उज्जहार। तद्धि सदसदात्मकं सात्त्विकाहङ्कारसम्भूतसत्त्वगुणबहुलत्रिगुणानुपविष्टपञ्चब्रह्मपुरुषवेदादिमयखात् । पञ्च ब्रह्मपुरुषा मनःक्रियागुणव्यपदेशाभावात् प्रागसत् । त्रिगुणन्तु सदिति । एवमुक्तं मनोमयकोषव्याख्याने-“तस्य यजुरेव शिर ऋगदक्षिणः पक्षः सामोत्तरः पक्ष आदेश आत्माऽथर्वाङ्गिरसः पुच्छं प्रतिष्ठेति ।” अत्रादेशः सदाशिवो विद्याश्रयः पुरुषः। तस्मान्मनसश्चाभिमन्तारमीश्वराधिदैवतमहङ्कारमुज्जहार। ततश्चैव महान्तमप्यात्मानं जीवसंज्ञमव्यक्तात्मानुप्रविष्टमव्यक्तस्थत्रिगुणानुप्रविष्टविद्याश्रयसदाशिवात्मकं प्रशानमुज्जहार। विज्ञानमयकोषव्याख्याने चोक्तं-"तस्य श्रद्धव शिरः सत्यं दक्षिणः पक्ष ऋतमुत्तरः पक्षो योग आत्मा महः पुच्छं प्रतिष्ठेति ।” विषयाणां ग्रहीतृणि श्रोत्रादीनि पञ्च बुद्धीन्द्रियाणि सर्वाणि खल्वाहङ्कारिकत्रिगुणमयानि शनैः क्रमेणोजहार। एवमुद्धतेषु तेषु मनोऽहकारमहत्पश्चबुद्धीन्द्रियेषु मध्ये तेषां षण्णाममितौजसामहङ्कारपश्चबुद्धीन्द्रियाणां सूक्ष्मान् सूक्ष्मानेकैकानवयवान् तास्वात्ममात्रास्वव्यक्तानुपविष्टप्रशानमात्रासु मध्ये खेकैकस्यामात्ममात्रायां सन्निवेश्य सव्र्वभूतानि सूक्ष्मशरीरिणो निम्मे मे। एषां संज्ञामाह-यद् यस्मात् षट् तेषामहङ्कारादीनां पण्णां मूक्ष्मा मूत्तावयवा इमानि वक्ष्यमाणानि महाभूतादीनि आश्रयन्तीति तस्मात् तस्य मूत्तिं तस्य शरीरमित्याहुः । यदा पप्णां सूक्ष्मानवयवान् खल्वात्ममात्रासु सन्निवेशयामास तदा महान्ति पञ्च भूतानि सदभूतकृदव्ययं मनश्च सूक्ष्मावयवैः सूक्ष्म श्वावयवैः कम्मेभिः पञ्चेन्द्रियः पारवादिभिः सह विशन्ति । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy