SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [ यजःपुरुषीयः सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः। ता यदस्यायनं पूर्व तेन नारायणः स्मृतः॥ यत्तत् कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मति कीत्यते॥ तस्मिन्नण्डे स भगवानुषिखा परिवत्सरम् । स्वयमेवात्मनो ध्यानात् तदण्डमकरोद द्विधा ॥ ताभ्यां स शकलाभ्याञ्च दिवं भूमिञ्च निम्मेमे। मध्ये व्योम दिशश्चाष्टावपां स्थानश्च शाश्वतम् ॥ उद्ववर्हात्मनश्चैव मनः सदसदात्मकम्। मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥ महान्तमपि चात्मानं सर्वाणि त्रिगुणानि च। विषयाणां ग्रहीत णि शनैः पञ्चेन्द्रियाणि च ॥ तेषान्त्ववयवान् सूक्ष्मान् षष्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निम्ममे॥ यन्मूत्तावयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति पट्। तस्माच्छरीरमित्याहुस्तस्य मूर्ति मनीषिणः॥ तदाविशन्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवैः सूक्ष्मः सर्वभूतकृदव्ययम् ॥ तेषामिदन्तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्वायम् ॥ आद्याद्यस्य गुणन्वेषामवामोति परः परः। यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥सर्वे षान्तु सनामानि कर्माणि च पृथक पृथक् । वेदशब्दभ्य एवादौ पृथक् संस्थाश्च निम्मेमे ॥ कत्मिनाञ्च देवानां सोऽमृजत् प्राणिनां प्रभुः। साध्यानाश्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम् ॥ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।. दुदोह यशसिद्धाथेमृगयजुःसामलक्षणम् ॥ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा। सरितः सागरान शैलान् समानि विषमाणि च ॥ तपो वाचं रतिञ्चैव कामांश्च क्रोधमेव च । सृष्टिं ससज्ज चैवेमा स्रष्टुमिच्छनिमाः प्रजाः॥ कम्मेणाञ्च विरेकार्थं धमाधम्मौ व्यवेचयत् । द्वन्द्व रयोजयच्चेपाः सुखदुःखादिभिः प्रजाः॥ अण्वो मात्रा विनाशिन्यो दशा नान्तु याः स्मृताः। ताभिः सार्द्धमिदं सर्च सम्भवत्यनुपूर्वशः ।। यन्तु कर्मणि यस्मिन् स न्ययुक्त प्रथम प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः। हिंस्राहिंस्र मृदुक्ररे धर्माधर्मादृतानृते । यद यस्य सोऽदधात सर्गे तत् तस्य स्वयमाविशत् ॥ यथर्नु लिङ्गान्यतवः स्वयमेवत्तु पय्येये। खानि खान्यभिपद्यन्ते तथा कर्माणि देहिनः॥ लोकानान्तु विद्धार्थ मुखबाहूरुपादतः। ब्राह्मणं क्षत्रियं वैश्यं शुद्रश्च निर. वत्तेयत् ॥” इति। इत्युक्तया रीत्याऽण्डमध्याज्जातोऽसौ नारायणो नाम महान् ब्रह्मा सर्वतत्त्वमय आदिभूतखादादित्यः। सर्वमेवं सूक्ष्म सुषुवे तस्मात् सविता। तद्यथा-तस्य दक्षिणपाचोत् प्रधानं नाम योऽसौ ब्रह्मा For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy