________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः
सूत्रस्थानम् ।
८४७ वागदेहमनसां चेष्टामाक्षियातिबला मलाः । संन्यस्यन्त्यबलं जन्तु प्राणायतनमाश्रिताः ॥ स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः। प्राणैर्विमुच्यते शीघ्र मुक्त्वा सद्यःफलाः क्रियाः ॥२०॥ दुर्गेऽम्भसि यथा मजद्भाजनं त्वरया बुधः। गृह्णीयात् तलमप्राप्त तथा संन्यासपीड़ितम् ॥ २१ ॥ अञ्जनान्यवपीड़ाश्च धूमाः प्रधमनानि च।
सूचीभिस्तोदनं शस्त्रहः पीड़ा नखान्तरे ॥ ननु विनौषधैः संन्यासः किं स्वभावादेवातीतवेगेषु दोषेषु स्वयं नोपशाम्यति इति ? अतस्तत्र स्वभावो न हेतुरित्यभिप्रायेणाह-हेतु वाग्देहेत्यादिकम् । अतिबला इति मला वातादयो दोषा मदमूर्छायकरा यादृशवलेन भवन्तितदधिकवलेन कुपिताः सुतरां वागदेहमनसां त्रयाणामेव चेष्टामाक्षिप्य निरस्याबलं दुर्बलं पुरुषं संन्यस्यन्ति सन्निक्षिपन्ति सम्यक् तमसि प्रवेशयन्ति । न तु बलवन्तं पुरुषम् । अतः सोऽधिकबलोन्नद्धकुपितप्राणायतनाश्रितदोषवान् दुर्बलो ना पुमान् संन्याससंन्यस्तः सन् सुतरां काष्ठीभूतो निस्पन्दमानो भवति च मृतोपमो मृतवत्। श्वासोच्छ्रासादिप्राणलिङ्गैनोपलभ्यते। ननु तहि किं मृत एव भवतीति ? अत आह–प्राणैरित्यादि। संन्यासकाल एव यदि सद्यःफलाः प्रयोगमात्रेण प्रबोधरूपफलजनिकाः क्रिया न कुर्यात् तदा प्राणैविमुच्यत एव इति मृतोपम इत्युच्यते। अत एव दोषाणामतिबलवतां वेगापगमो न भवति । जन्तोदुब्बलत्वेनातिप्रबलकुपितदोषाश्रितप्राणायतनखात अतिक्लान्त्या स्वयं न प्रतिबोधो भवति । मदमूर्छाययोश्च दोषा नेदृशमवला न च जन्तुरबल इत्यतः स्वयं प्रतिबोधः स्यात् ।
ननु प्राणविमोचनजनकदोषवेगोपहतपुरुषाः किं क्रियाविशेषेण प्राणान् न त्यजन्तीति ? अत आह- दुर्गेत्यादि । एतेन प्राणमोचनात् पूर्व सद्यःफलाः क्रियाः कार्या इति ज्ञापितम् । सद्यःफलाः क्रिया आह–अञ्जनानीत्यादि। वेगं कृत्वा क्षीणबलेपु ; वेगो हि दोपाणां बलक्षयकारणं भवति, यदुक्त विषमज्वरे-“कृत्वा वेगं गतबलाः" इत्यादि ; संन्यस्यन्त्यचेष्टं कुर्वन्ति ; प्राणायतनमिति हृदयम्, मुक्त त्यप्राप्य, सद्यःफलामिति सद्यःप्रयोधनकारिकां तोक्ष्णाञ्जनादिकाम्, शस्त्रैरिति च तोदनेन सम्बध्यते ।
For Private and Personal Use Only