SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः सूत्रस्थानम्। सागुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः। गुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितमुच्यते ॥ २१॥ स्वतत्रो हि कर्ता। तत्त्वं पुनः कारकान्तराप्रयुज्यत्वे सति कारकान्तरप्रयोजकखम्। गुणे क्रियोपचर्यते । तेनाथर्ववेदविदो ब्राह्मणा मन्त्रेणाशुभं शमयन्ति दुष्टान् मारयन्ति उच्चाटयन्ति वशीकुर्वन्त्यवश्यानित्यादि, एवमयं मणिविशेषो विष हन्ति प्रभावेण दाहमयमयं प्रमूते स्वर्ण भारमित्यादिश्च प्रयोगो भवति, न काष्ठ पचति वह्निः, पचतीत्यादिवन्मणिगणो विष हन्ति मत्रो मारयतीत्यादिभवति, चैतन्याभावेऽपि काष्ठादेः क्रियावत्वेन स्वातना विवक्षितुं शक्य , गणकम्म णोस्तु नियमतो द्रवयाश्रितवेऽपि करणकारकखसिद्धार्थ प्रभावाख्यव्यापारवत्तया शक्यते विवक्षितं स्वातत्रा निष्क्रियतेऽपि। अन्यथा कारकल नं सिधाति सच हि कारक क्रियावत् । यत्र तु मत्रादिः कत्ते खेन प्रयुज्यते तत्र द्रव्याश्रितखेनामुख्ये मुख्यतारोपादेवेति। विशिष्ट द्रव्ये विशिष्ट गुणकर्मणी अपि कारणानुरूपः कार्यगुणो भवति, कर्म तु किश्चित्कारणानुरूपं किश्चिच कारणसमवायादननुरूपम् । कारणगुणप्रकृतिको हि कार्यगुणो व्यवस्थितः । यथा शुक्लतन्तुकृतः पटः शुक्ल एव, हरिद्राचूर्णसंयोगेन हरिद्रायाश्चूर्णस्य तक्ष्णेन विरोधिना मान्यगुणनाशाच्छु क्लकृष्णापायाद्रक्तोऽभिव्यज्यते रक्तशुक्लकृष्णवर्णा हरिद्रा। एतेन यदुच्यते मणिमत्रादीनां विषहरणादिकर्म यत तत तु शक्तिर्नामाष्टमं वस्विति तन्निरस्तम्। इत्थश्च सत्त्वात्मशरीरेति त्रयं मिलितं लोकः सेन्द्रियश्च तनो निरिन्द्रियोऽचेतनश्चेति द्विविधस्तच खादिद्रव्यात्मकखाद् द्रव्यमेव न गुणः कर्म वा आश्रयत्वेन द्रव्यप्राधान्यात चेतनाधावधिष्ठितखान पुमांश्च वृक्षादेश्च अन्तश्चैतन्याचे तनखञ्च ति वोध्यमिति ॥२०॥ ___ गङ्गाधरः-ननु तत्र सर्व प्रतिष्ठितमिति यदुक्तं तत्र सर्वमिति किं खादिनवकमात्रमारम्भकखेन प्रतिष्ठितमुत किमन्यत् ? इत्यत आह ; तन्त्रकारश्च वानस्पत्यान् मूकान् प्राणिनो वक्ष्यति, तेनागमसम्बलितया युक्तया रेतना वृक्षाः ॥२०॥ चक्रपाणिः-सम्प्रति गुणान् निर्देष्टुमाह, सार्था इत्यादि।-अनेन त्रिविधा अपि वैशेषिकाः सामान्या आत्मगुणाश्चोशिशः, तत्रार्था: शब्दस्पर्शरूपरसगन्धाः, यदुक्तम् "अर्थाः शब्दादयो ज्ञेया For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy