________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
चरक संहिता |
! दीर्घञ्जीवितोयः
पृथगेवेति ज्ञेयम् । प्रभावो हि प्रकषेण स्वघटकानां समुदायले भाव उत्पत्तिः स्वaratri भावनाभ्योऽतिशयेन भावो नाम ।' स्वारम्भकद्रव्यक्रिययारब्धो विजातीयक्रियाप्रभावः स्वारम्भकद्रव्यगुणकर्म्मभिर्निष्पादयितुमशक्यकर्मकृत स चाचिन्त्यः स्वघटकीयभावातिशयितत्वात् । एष च प्रभावः सर्वस्मिन विशिष्टवस्तुनि न परिणम्यते, तथाविधकारणविशेषायोगात् । वक्ष्यते हि स्वयमंत्र त्रीणि कारणानि द्रव्याणां चेतनाचेतानानां द्रव्यगुणकर्माणीति । तानि च सन्त्यपि सर्वेषां चेतनाचेतनानां द्रव्याणामारम्भकत्वेन कालविशेषेण भूतपञ्चकन्यूनातिरेक विशेषेण योगविशेषेण येषामारम्भकाणि भवन्ति तेषामेवाचिन्त्यमभावो भवतीति निष्कर्षः । ननु यावत्समवायिसयोग उत्पत्तिः स च गुणो न कर्म कथं वर्त्तते गुणकर्मणोः, द्रव्ये एव हि गुणो वर्त्तते न तु गुण वाणि वा ? वक्ष्यते हि “यत्राश्रिताः कर्म्मगुणाः" इत्यादीति द्रव्ये हि काय गुणाः साथ गुदयः कर्म च । समवायेन परत्वादयश्चाकाय्याः प्रकृतिभूता गुणा गुणे च कर्म्मणि च द्रवेा च सर्व्वत्रैव समवायेनैव वर्त्तन्ते, न हि परत्वापरत्वसंख्या पृथक्तुपरिमाणानि विना द्रव्यं वा गुणो वाकवा केवलमुत्पद्यते इत्यविनाभात्रः स्फुटो दृश्यते, पड्टा इव पड़साः पञ्च कम्पणीति तुल्यप्रयोगस्तुल्यबोधयातो नावस्तुभूतः पर्य्याप्तिसम्बन्धः कल्प्यते पडसाद गुणे गुणवृत्तेः । समवाय एव हि सर्व्वत्रैव गुणकर्मसु सख्यादिवृत्ती सम्बन्धः सिद्धः । सगुणमेव हि द्रव्यमुत्पद्यते यदा तदा गुणोत्पत्तौ समवायिकारणमप्यस्ति द्रव्यस्येव गुणकर्मणोरतः समवायिकारणसमवाय एवोत्पत्तिस्तद गुणकर्मणामुत्पत्तौ परत्वापरत्वसङ्ख्यापरिमाणपृथक्त्वगुणान विना नोत्पत्तिः सम्भवति । यथा पञ्चमहाभूतानामुत्तरोत्तरोत्पत्तौ शब्दस्पर्शादीनामप्युत्तरोत्तरोत्पत्तौ परत्वादिगुणयोगो दृश्यते । तस्मात् प्रकृतिगुणानां परत्वादीनां गुणकम् स्वपि समवायेन वृत्तिरस्ति न तु कार्य्यगुणानां गुरुत्वादीनां गुणे वृत्तिरस्तीति । एतदभिप्रायेणैव वैशेषिकेऽप्युक्तं - गुणोऽपि विभावयते गुणेनापीति । द्रव्यं गुणकर्म्माश्रयत्वेन मुख्यखात् फलनिष्पत्तौ कर्त्त भवति, गुणः क च
करणे एव भवतो न तु कर्तृणी द्रव्याश्रितखेन गौणखात् स्वातन्त्रप्राभावात् । “अभिवादितस्तु यो विप्रो नाशिषं सम्प्रयच्छति । श्मशाने जायते वृक्षो गृध्रकङ्कोपसेवितः” । तथा "वृक्षगुल्मं बहुविधं तत्रैव तृणजातयः । तमसा धर्मरूपेण शब्दिताः कर्महेतुना ॥ अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः । - एतदन्ताश्च गतयो ब्रह्माद्यैः समुदाहृताः ॥" तथा
For Private and Personal Use Only