SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः ७०१ सूत्रस्थानम् । प्रकृतिस्थं यदा पित्तं श्लेष्मा मारुतसंनये । संनिसन्ध्यात् तदा कुर्य्यान्मृद्वग्नित्वं शिरोग्रहम ॥ निद्रां तन्द्रां प्रलापञ्च हृद्रोगं गात्रगौरवम । नखादीनाञ्च पीतत्वं ष्ठीवनं कफपित्तयोः॥२५॥ हीनवातस्य तु श्लेग्मा पित्तन सहितश्चरन् । करोत्यरोचकापाको सदनं गौरवं तथा ॥ हृल्लासमास्यत्रवणं सदाहं पाण्डुतां मदम । विरेकरय च वैषम्यं वैषम्यमनलस्य च ॥२६॥ होनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः। स्तम्भं शैत्यञ्च तोदञ्च जनयत्यनवस्थितम ॥ गौरवं मृदुतामग्नेर्भक्ताश्रद्धाञ्च वेपनम । नखादीनाञ्च शुक्लत्वं गात्रपारुष्यमेव च ॥ २७॥ गङ्गाधरः--प्रकृतिस्थं यदेत्यादि। यदा मारुतसंक्षये वृद्धः श्लेमा प्रकृतिस्थ पित्तं सन्निरुन्ध्यात् तदा पित्तकायं प्रलापं स्वकार्यन्तु मृद्रग्निवं शिरोग्रह निद्रां तन्द्रां हृद्रोगं गात्रगौरवं कुर्यात् । नखादीनां पीतवं पित्तकाय्यम् । कफपित्तयोः ष्ठीवनं तदुभयस्य काय भवेत् ॥२५॥ गङ्गाधरः---अथ इन्द्रद्धिः क्षयश्चैकस्येत्यस्योदाहरणत्रयमाह --हीनवातस्येत्यादि। पित्तेन वृद्धन सहितो वृद्धः श्लेष्मा हीनवातस्य स्वप्रमाणतः क्षीणो वातो यस्य तस्य देहे चरन्नरोचकाधनलवैषम्यान्तं करोति। तत्रास्यस्रवणान्त कफकाव्यम्। शेषं पित्तकाम्यम् ॥२६॥ __ गङ्गाधरः- हीनपित्तस्येत्यादि। मारुतेन वृद्धेनोपसंहितो वृद्धः श्लेष्मा स्तम्भादीनि जनयेत् । अनवस्थितं तोदं वातो वृद्धः स्वकार्य वेपनश्च गात्रपारुष्यञ्च जनयति ॥२७॥ अन्यत्रापि प्रकृतिस्थस्यापि दोषस्य विकारे व्याख्येयम् । अन्ये तु अवते-प्रकृतिस्थानामपि दोषाणां दुष्टदोषसम्बन्धाद विकारकारित्वं स्यात्, यथा रक्तादीनाम् ॥ १९-२५ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy