SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७०० www.kobatirth.org चरक संहिता | प्रकृतिस्थमित्यादौ तु — - Acharya Shri Kailassagarsuri Gyanmandir प्रकृतिस्थं या बातं पित्तं कफपरिक्षये । संरुणद्धि तदा दाहः शलञ्चारयोपजायते ॥ २२ ॥ प्रकृतिस्थं कफं पित्तं यदा वातपरिचये । * संनिरुन्ध्यात् तदा कुर्य्यात् सतन्द्रगौरवं ज्वरम् ॥ २३ ॥ प्रकृतिस्थं यदा वातं श्लेष्मा वित्तपरिचये । संनिरुन्ध्यात् तदा कुर्याच्छीतकं गौरवं जर ॥ २४ ॥ | कियन्तः शिरसीयः खल्वाकृष्टो दोषस्तत्स्थानस्थतदोषसंयोगाद्ध एव भवतीति, अन्यथा शैत्यादिकं न सम्भवतीति; एवं सव्वेत्र स्थानाकृष्टसमध्यम् । कुपितदोषेण समदोषस्याकर्षणं स्थानस्थावयवहासे स्थानान्तरस्थावयवमेलनेन वृद्धौ कारणं न तु समदोषस्य दुष्टिरिति वाह्यहेतुव्यापारवत् ।। २१ ।। गङ्गाधरः - प्रकृतिस्थमित्यादि । कफपरिक्षये वृद्धं पित्तं प्रकृतिस्थं वातं वटा संरुणद्धि तदा पित्तेनास्य दाहः क्रियते । शूलन्तु पित्तनिरुद्धवातः करातीति । यदि स्थानाकुष्टिर्दु ष्टिविशेष इष्यते तदा तद्वत् संरोधव दुष्टिविशेषो भवतु । न ह्यस्ति पित्तकफयोराकर्षणशक्तिः पङ्गखात् ॥ २२ ॥ गङ्गाधरः - प्रकृतिस्थं कफमित्यादि । प्रकृतिस्थं स्वप्रमाणे स्थितमकुपितं कफं वातपरिक्षये वृद्धं पित्तं संनिरुन्ध्यात् तदा कफकाय्यं तन्द्रागौरवसहितं ज्वरं पित्तं कुर्य्यादिति ॥ २३ ॥ गङ्गाधरः- प्रकृतिस्थं यदेत्यादि । प्रकृतिस्थ वातं पित्तपरिक्षये वृद्धः इलेप्मा यदा सन्निरुन्ध्यात् तदा वाकाव्यं शीतकं स्वकार्यं गौरवं ज्वरश्च कफः दुर्य्यात्॥२४॥ प्रदेशे तावान पित्तसम्बन्ध उचितो न भवत्येवेत्यधिकेन तत्र पित्तेन दाह उपपन्न एव एवम् For Private and Personal Use Only * श्लेष्माणं हि समं पित्तं यदा वातपरिक्षये । निपीडयेत् तदा कुर्य्यात् सतन्द्रागौरवं ज्वरम् ॥ प्रवृद्धो हि यदा इलेष्मा पित्ते क्षीणे समीरणम् । रुन्ध्यात् तदा प्रकुर्वीत शीतकं गौरवं रुजम् ॥ समीरणे परिक्षीणे कफं पित्तं समत्वगम् । कुर्वीत सन्निरुन्धानो मृह ग्नित्वं शिरोग्रहम् ॥ इति चक्रसम्मतः पाठः ।
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy