SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः सूत्रस्थानम् । सुखोषितं प्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्र स्रग्विणमनुपहतवस्त्रसंवीतं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तम् इष्टे नक्षत्र तिथिकरणमुहर्ते'च कारयित्वा ब्राह्मणान् स्वस्तिवाचनं प्रयुक्ताभिराशीर्भिरभिमन्त्रितां मधुमधुकसैन्धवफाणितोपहितां मदनफलकषायमात्रां पाययेत् ॥ ८ ॥ __ मदनफलकषायमात्राप्रमाणन्तु खलु सर्वसंशोधनमात्रा-. प्रमाणानि च प्रतिपुरुषमपेक्षितव्यानि भवन्ति, यावद्धि यस्य संशोधनं पीतं वैकारिकदोषहरणायोपपद्यते न चातियोगायोगाय, तावदस्य मात्राप्रमाणे वेदितव्यं भवति ॥६॥ पीतवन्तन्तु खल्वेनं मुहूर्तमनुकाक्षत् । तस्य यदा पुरुषं पुनः स्नेहस्वेदोपपन्नमनुपहतमानसं स्वस्थचित्तमभिसमीक्ष्य सुखोषितं प्रजीणभक्तं पूर्वदिनकृताहारे जीर्णे सति शिरःस्नातं शिरःपर्यन्तं सङ्गिं जले मज्जयिखा स्नातं चन्दनागादिघृष्टद्रवेणानुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतमक्षुण्णवस्त्रं वसानं संवीतश्च कुणिं देवतादीनचितवन्तं खल्विष्टे शुभनक्षत्रादियुक्तकाले ज्यातिषशास्त्रोक्तरक्षणविधानेन प्रयुक्ताभिराशीभिरभिमन्त्रितां मध्वादुरपहितां मदनफलकपायमात्रां वैद्यः पाययेत् । मदनफलकषायमात्राप्रमाणं तथा खलु सव्यसंशोधनमात्राप्रमाणानि च प्रतिपुरुषमपेक्षितव्यानि भवन्ति । कस्मादिति ? अत आह-यावधीत्यादि। अस्य पुंसो यावन्मात्रं संशोधनमौषधं पीतं वैकारिकदोपहरणायोपपद्यते न चातियोगादयः, तावदेव संशोधनौषधस्य मात्राप्रमाणं भिषजा वेदितव्यं भवतीति ॥ ८९॥ गङ्गाधरः-मध्वादिकं मदनफलकपाये यथायोग्यं देयम् । एवं यथाईमात्रां वमनोपधं पीतवन्तमेनं पुरुषं मुहूत्तं कालमनुकाङ्केत् । ततस्तस्य वम्यस्य 'कालेन व्याधिप्रशमः कृतस्तावन्तम् ; इट इति शोधनकर्तृ नक्षत्राद्यनुगुणे औषधप्रयोगार्थे विहित इत्यर्थः, यदुक्त ज्योतिषे– “पुष्यो हस्तस्तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ । स्वातिः सौम्यञ्च भैषज्ये कुर्य्यादन्यत्र वर्जयेत्' इति । कारयित्वेति स्वस्तिवचनं कारयित्वा ॥८॥ चक्रपाणिः-प्रतिपुरुषमपेक्षितव्यानीत्यनेन प्रतिपुरुषं शोधनमात्राभेदं दर्शयति-यावद ८३ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy