SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५६ चरक-संहिता। [उपकल्पनीयः स्नेहस्वेदोपकरणानि द्रव्याणि, तथैवोई हरानुलोमिकोभयभागिकसंग्रहणीयदीपनीयपाचनीयोपशमनीयवातहराणि समाख्यातानि चौषधानि, यच्चान्यदपि किश्चिद्वापदः परिसंख्यायोपकरणं विद्यात्, यच्च प्रतिभोगार्थ तत्तदुपकल्पयेत् ॥ ६॥७॥ ततस्तं पुरुषं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथाहमुपपादयेत् । तं चेदस्मिन्नन्तरे कश्चिन्मानसः शारीरो वा व्याधिः कश्चित् तीव्रतरः सहसाभ्यागच्छेत्, तमेव तावदस्योपावर्त्तयितुं यतेत । ततस्तमुपावर्त्य तावन्तमेवैनं कालं तथाविधेनैव कर्मणोपाचरेत् । ततस्तं पुरुषं स्नेहस्वेदोपपन्नमनुपहतमानसमभिसमीक्ष्य कानीत्यन्तानि नानाविधानीत्यादीनि च स्पष्टानि। तथैवेत्यादि। ऊर्द्धभागहरादीनि षड्विरेचनाश्रितीयोक्तानि समाख्यातानि संज्ञातानि । यच्चान्यदप्युक्तभ्योऽन्यदनुक्तं यच्च व्यापदः परिसंख्याय झाला तूपकरणं वैद्यो विद्यात् । यच्चान्यदुक्तेभ्योऽनुक्तं द्रव्यं प्रतिभोगार्थ विद्यात् तत्तत् सर्दनुपकल्पयेत् ॥ ६॥७॥ गङ्गाधरः- इत्युपकल्पनामुक्त्वा वमनप्रयोगमाह-ततस्तमित्यादि। तत एवमुपकल्पनादनन्तरं तं संशोध्यं पुरुपं यथोक्ताभ्यां यथा येन प्रकारेणोक्ताभ्यां स्नेहस्वेदाभ्यां यथाहमुपपादयेत् । तञ्चेत्यादि । उक्तस्नेहविधिना स्नेहयित्वा स्वेदोक्तविधिना स्वेदयेत् । तं पुरुषं चेदस्मिन् स्नेहकर्मणि स्वेदे वा क्रियमाणेऽवान्तरं मानसः शारीरो वा तीव्रतरो व्याधिरागच्छेत् सहसा तदा तं पुरुषमस्य स्नेहस्य स्वेदस्य वोपावर्तयितु निवर्तयितु भिषग यतेत। तीव्रतररूपेण यदि व्याधि गच्छेत् तदा नोपावर्तयितु यतेतेति। तत इत्यादि। ततः परं तं पुरुषं स्नेहस्वेदयोरुपावत्तेनादनन्तरं तावन्तमेव कालमेनं पुरुषं तथाविधेन तत्तद्व्याधियोग्येन कर्मणैवोपाचरेत् । ततो निवृत्ततद्व्याधि तं शस्त्राणि चोपकरणार्थानीति कुद्दालकर्तरीप्रभृतीनि, कुशहस्तकं वर्जनी, अन्ये तु आद्रव्यपरिपचनमभिदधति ; मानभाण्डं प्रतिमानम् ॥ ६७॥ चक्रपाणिः-तन्चेत्यादावस्मिन्नन्तर इति स्नेहस्वेदकरणसमये, तावन्तमेव कालमिति यावत् For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy