SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चदशोऽध्यायः । अथात उपकल्पनीयमध्यायं व्याख्यास्यामः, इति माह भगवानात्रे यः ॥ १ ॥ इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं संभृतसम्भारं वमनं विरेचनं वा पाययितुकामेन भिषजा प्रागेवौषधपानात् सम्भारा उपकल्पनीया भवन्ति । सम्यक चैव हि गच्छत्यौषधे प्रतिभोगार्थाः । व्यापन्ने चौषधे व्यापदः परि गङ्गाधरः - स्वेदाध्याये प्रोक्तं- “स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरम् ” इति । ततः स्वेदाध्यायानन्तरं संशोधनयोवमन विरेचनयोरुपकल्पनीयमध्यायमारभते - अथात इत्यादि । उपकल्पनीयमिति वमनविरेचनयोः संशोधनयोः कल्पनमुपलक्ष्यीकृत्य यत् कल्प्यते तदुपकल्पनमधिकृत्य कृतोऽध्यायस्तमुपकल्पनीयमध्यायं व्याख्यास्याम इत्यादि सव्र्व्वं पूर्व्ववव्याख्येयम् ॥ १ ॥ गङ्गाधरः - इह खल्वत्यादि । इह खलु लोके राजानं राजमात्रं राजवत् मात्रा परिच्छदो यस्य तम्, अन्यं वा विपुलद्रव्यं धनजनाद्याढ्य सम्भृतसम्भारं सम्यक् भृतमाहरणादिना धृतः सम्भारस्तत्र योग्य खिलवस्तुसमुदायो येन तं कृतमस्तुततद्योग्य सकलद्रव्यं पुमांसं वमनमौषधं विरेचनञ्चषधं पाययितुकामेन भिषजा प्रागेवौषधपानात् वमनविरेचनोपधपानात् पूर्व सम्भारा वमनविरेचनयोरुपयुक्ता द्रव्यसमूहा उपकल्पनीयाः समीपे कल्पनीयाः क्लृप्तीकरणीया भवन्ति । कस्मात् ? सम्यक् चैव हीत्यादि । हि यस्मात् । वमन विरेचनयोरौषधे पीते सम्यक् चैव योगं गच्छति सति प्रतिभोगार्थी मनविरेचनभोगानन्तरं पुनर्भोगार्थाः सम्भारा भवन्ति । न केवलं प्रतिभोगार्थाः । व्यापन्ने चौषधे असम्यग्योगं गच्छति व्यापदः अयोगादि चक्रणाणिः -- स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोक्तात् सम्बन्धादुपकल्पनीय इति शोधनोपकल्पना वाचको ज्ञेयः । राज्ञ इव मात्रा परिच्छदो यस्य स राजमात्रः, विपुलद्रभ्यस्तु For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy