________________
Shri Mahavir Jain Aradhana Kendra
१३श अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
पाण्डुता गौरवं जाड पुरीषस्याविपक्कता । तन्द्रीररुचिरुतुक्क शः स्यादतिस्निग्धलक्षणम् ॥ २६॥ द्रवणमनभिष्यन्दि भोज्यमन्नं प्रमाणतः । नातिस्निग्धमसङ्कीर्णं श्वः स्नेहं पातुमिच्छता ॥ पिबेत् संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः । शुद्धार्थ पुनराहारे नैशे जीर्णे पिवेन्नरः ॥ उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपाशयः । शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न धारयेत् ॥ स्निग्धं वच्चेश्चासंहतञ्च बच्चे इति । अङ्गे मार्दवं स्निग्यता च । स्निग्धानां सम्यक् स्निग्धानाम् ॥ २५ ॥
गङ्गाधरः - अथातिस्तिग्यलक्षणमाह-पाण्डुतेत्यादि । पुरुषस्य पाण्डुता च गौरवञ्च जाड्यञ्च गात्रे, न तु पुरीषस्येति योजना, जाड्यासम्भवात् । अविपक्कता तु पुरीष त्यामता अतिस्निग्धलक्षणमिति ॥ २६ ॥
६११
गङ्गाधरः - अथ किं पानात् प्रथमं हिताहितमिति प्रश्नस्योत्तरमाहद्रवोष्णमित्यादि । स्नेहः श्वः परदिने पातुमिच्छता पुंसा पूव्वं दिनं द्रवञ्च उष्णञ्च अनभिष्यन्दि चानतिस्निग्धञ्च असङ्कीर्ण द्वित्रादिद्रव्याणामेकीकरणेन निष्पन्नपाकं सङ्कीर्णं तदन्यदसङ्कीर्णमन्नं भाज्यं, परदिने तु यदा प्रकाङ्क्षा भोजनाकाङ्क्षा स्यात् तदान्नकाले संशमनं स्नेहं स पुमान् पिवेत् । शुद्धार्थ स्नेहने कत्तव्ये नैशाहारे जीर्णे प्रातःकाले स नरः पिबेत् । ततः पीते स्नहे जीर्णे च किञ्च हिताहितमिति प्रश्नस्योत्तरमाह - उष्णोदकोपचारोत्यादि । उष्णोदकेन पानस्त्रानशौचादुपचारशीलः स्यात् तथा ब्रह्मचारी मैथुनवज्र्जी स्यात् । तथा क्षपाशयः स्यात् न तु दिवाशयो रात्रिजागरणो वा स्यात् ।
For Private and Personal Use Only
चक्रपाणिः - स्नेहात् पूर्वं यत् पथ्यं तदाह - द्रवोष्णमित्यादि । असङ्कीर्णमविरुद्धवीर्य्यम्, श्व इत्यागामिदिने । अन्नकाले द्विप्रहरादिलक्षणे, बुभुक्षा कदाचिन्न स्यादपि, तदर्थं विशेषणं “प्रकाङ्कितः” इति । शुद्धयर्थं स्नेहं नैशे दिनान्तरकृत आहारे जीर्ण एव प्रातरेव पिबेदित्यर्थः । संशमनार्थस्नेहो यदि जरणान्ते प्रातरेव क्रियते तदा कोष्ठोपलेपकदोषस्याक्षयात् तेन दोषेण सम्बद्धो दोषोत्क्लेशं कुर्य्यात् न संशमनं, संशोधनार्थस्तु दोषोत्क्लेशं करोतीत्यपेक्षणीय एवेति भावः । एतच्च कालकथनमुत्सर्गेण, तेन, " वातपित्ताधिको रात्रौ इत्युक्तकालविरोधो न स्यात् ।