SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [स्नेहाध्यायः अन्नविषश्छर्दयन्तो जठरामगर्दिताः। दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः ॥ न स्नेह्या वर्तमानेषु न नम्तोवस्तिकर्मसु । स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः ॥ २३ ॥ पुरीषं ग्रथितं रुकं वायुरप्रगुणो मृदुः। पक्ता खरत्वं रौक्ष्यश्च गात्रस्यास्निग्धलक्षणम् ॥ २४ ॥ वातानुलोम्यं दोप्तोऽग्निवर्चः स्निग्धमसंहतम् । माईवं निग्धता चाङ्ग स्निग्धानामुपजायते ॥ २५ ॥ षिध्यन्ते। छद्दे यन्तश्छदिरोगवन्तः । जठररोगामदोषगरदोषार्दिता ये। प्रतान्ता ग्लानिमन्तः। स्नेहग्लानाः स्नेहसवन ये ग्लायन्ति न हृष्यन्ति ते। ये मदातुराः सव्वेदा मदरोगार्ता मद्यादिपानजमदनित्याश्च ते सर्वे जना न स्नेह्याः स्नेहनार्हा न भवन्ति, तेषां स्नेहो न काव्यः। नस्तःकम्मेसु नस्यप्रधानादिष वत्तेमानंष क्रियमाणेषु तथा वस्तिकम्मेसु निरुह नुवासनकम्मेसु क्रियमाणेषु ते जना न स्नेह्याः। एषां स्नेहने दोषमाह-स्नेहपानादित्यादि । तेषाम् अस्नेह्यानां स्नेहपाना सुदारुणा रोगाः कफादितो जायन्ते ॥ २३॥ गङ्गाधरः-- अथ “स्निग्धातिस्निग्धलक्षणं किम” इति प्रश्नस्योत्तरमाह-पुरीष. मित्यादि। पुरुषस्य यस्य स्नेहने कृते पुरीषं ग्रथितं ग्रन्थिभूतं वत्ततं न द्रवीभूतं स्यादेवं रुक्षश्च तत् पुरीषं दृश्यते। वायुश्च प्रगुणो यथास्वगुणो न भवति । पक्ता जाठराग्नि दुमन्दः। गात्रस्य खरखं ककेशवं रौक्ष्यश्च चिक्कणखराहित्यं स्यात् तदा तस्यास्निग्धलक्षणं स्नेहायोगलक्षणं विद्यात् । प्रश्ने स्निग्धातिस्निग्धलक्षणपदमस्निग्धेऽप्युपलक्षणात् ॥ २४ ॥ गङ्गाधरः-अथ स्नेहस्य सम्यग्योगलक्षणमाह-वातानुलोम्यमित्यादि । तेषां शोधनादृते स्नेहनं न शस्तं, यदा च शोधने विरुक्ष्यन्ते तदा परं शोधनाङ्गस्तव स्नेहः कर्त्तव्य इति भावः ; उत्सन्नो वृद्धः कफो मेदश्च येषां ते तथा,-एतच्च विशेषणं, विरुक्षणीया एवम्भूता एव भवन्तीति दर्शयति । अभिष्यन्दो द्रवप्रधानश्लेष्मविकारी, गरः कृत्रिमं विषम् अतिप्रतान्तोऽतिक्षीणद्वधातुः वर्तमानेषु क्रियमाणेप्वित्यर्थः ॥ २३ ॥ चक्रपाणिः--अस्निग्धलक्षणमाह-पुरीषमित्यादि। मृदुरिति पक्त विशेषणम्। वातानुलोम्यमित्यादि स्निग्धलक्षणम् । पाण्डुतेत्याद्यतिस्निग्धलक्षणम्। जाड्यमिन्द्रियमदत्वम् ॥ २४॥२५॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy