SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यायः ] सूत्रस्थानम् । ५२५ इत्यतः सम्यगाख्या इत्यस्माद्धेतोः समाख्या नाम ध्वनिराक्षेपोऽर्थापत्तिः स्यात् । तयथा - " हन्तालि सन्तापनिवृत्तयेऽस्याः किं तालवृन्तं तरलीकरोषि । उत्ताप एषोऽन्तर दाह हेतुर्नतभ्रवो न व्यजनापनोद्यः ॥” इति । इह वैदेवनेष्टस्य कामिन्याः कामजतापजन्मकथनस्य विवक्षया किं तालवृन्तं तरलीकरोषीत्यनेन प्रतिषेध इव विशेषः कृत इति स्तुतं नामाक्षेपः । तथा शान्त्यधिकारादपेतस्य कामोत्कण्ठितचित्तस्य स्तुतिरूत्ताप एषोऽन्तरदाह हेतुरित्यनेन कृता, तेन स्तोत्रं नामाक्षेपः । न व्यजनापनोय इति व्यजनापनोद्यो नायमुत्ताप इत्यर्थे तूक्ते नव्यजनापनोद्य इति समानविशेषणोऽन्योऽर्थो गम्यते नवयौवनान्वितजनेनापनोय इति समासोक्तिराक्षेपः- तथा कामजमनोव्याकुललमपहू त्यान्तरदाहजनितो दाहः सूचित इति अपह्न तिर्नामाक्षेपोऽर्थापत्तिः, प्रकारान्तरेण कामतापाभिधानात् पर्यायोक्तं नामाक्षेपोऽर्थापत्तिरिति । एषां पञ्चानाम् आक्षेपाणामेकत्र सङ्गो भवतीत्यतः समाख्या नाम ध्वनिराक्षेपोऽर्थापत्तिरिति । इत्येवं पविध आक्षेपोऽर्थापत्तिः पविश्वेति । इमामर्थापत्तिं परीक्षते गौतमः 1 "अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् " व्याख्यातमिद वात्स्यायनेन -असत् मेघेषु वृष्टिर्न भवति सत्सु भवति इत्येतदर्थादापद्यते, सत्स्वपि चैकदा न भवति । सेयमर्थापत्तिरप्रमाणमनैकान्तिकत्वादिति । अनैकान्तिकत्वमर्थापत्तेः । "नानर्थापत्तावर्थापत्यभिमानात् । असति कारणे कार्य नोत्पद्यत इति वाक्यात् प्रत्यनीकभूतोऽर्थः सति कारणे काय्र्यमुत्पद्यत इत्यर्थोऽर्थादापद्यते । अभावस्य हि भावः प्रत्यनीक इति सोऽयं काय्र्योत्पादः । सति कारणेऽर्थादापद्यमानो न कारणस्य सत्तां व्यभिचरति । न खल्वसति कारणे काय्यमुत्पद्यते । तस्मान्नानकान्तिकी । यत् तु सति कारणे निमित्तप्रतिवन्धात् कार्यं नोत्पद्यत इति, कारणधम्र्मोऽसौ न त्वर्थापत्तेः प्रमेयम् । किं तर्हि अस्याः प्रमेयम् ? सति कारणे काय्र्यमुत्पद्यत इति । योऽसौ काय्र्योत्पादः कारणस्य सत्तां न व्यभिचरति, एतदस्याः प्रमेयम् । एवञ्च सति, अनर्थापत्तावर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति । दृष्टश्व कारणधम्र्मो न शक्यः प्रत्याख्यातुमिति । “प्रतिषेधाप्रामाण्यञ्चानैकान्तिकत्वात्" । अर्थापत्तिर्न प्रमाणमन ; विपयोपदेशकत्वेनैव त्रिवर्गसाधकत्वञ्च त्रिवर्गसाधनादेव ऊतैरेव हि प्रायस्त्रिवर्गानुष्टाने प्रवृत्तिर्भवति प्रमाणपरिच्छेदेन तु प्रचारो विरल एव । यत् तु बहुकारणजलकर्पणवीजतु - For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy