________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२३
११ अध्यायः]
सूत्रस्थानम् । मित्यादि। शब्दानामर्थस्य प्रकटवं प्रकाशकलमभिव्यक्तिः। तस्या द्वौ भेदौ-श्र तिराक्षेप इत्यपि। तत्र मुख्या वृत्तिलक्षणा वृत्तिगौणी वृत्तिरिति त्रिधा। श्रतिमुक्त्वाक्षेपं लक्षयति। श्रतेरलभ्यमानोऽौँ यस्माद्भाति स चेतरः। स आक्षेपो ध्वनिः स्याच ध्वनिना व्यज्यते यतः॥ इति । श्रुतेनिरुक्तायास्त्रिविधायाः श्रतितो न लभ्यमानो यः श्रुत्यर्थादितरोऽर्थः स यतो भाति प्रकाशते स आक्षेपो नाम शब्दस्याभिव्यक्तिः। स एव ध्वनि म स्याद् यतो ध्वनिना वर्णात्मकशब्दभिन्नशब्देन व्यज्यते ध्वन्यते तस्माद ध्वनिव्यङ्गयो ध्वनिरिति। स चाक्षेपो निर्देशादेव पड़िधः । स्तुतं स्तोत्रं समासोक्तिरपह्न तिः पायोक्तं समाख्या चेति। तत्र स्तुतं लक्षयति। शब्देनार्थेन यत्रार्थ कृखा स्वयमुपाजनम् । प्रतिषेध इवेष्टस्य यो विशेषोऽभिधित्सया॥ तमाक्षेपं ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः । अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ॥ इति । यत्राक्षेप शब्देन स्वयं मुख्यया श्र त्याभिहितेनार्थेन द्वाराऽर्थमुपाजनं कृखा इष्टस्याभिमतस्याभिधित्सयाऽभिधानेच्छया प्रतिषेध इव यो विशेषस्तमाक्षेपमत्र स्तुतं नाम्ना ब्रुवन्ति । तद्यथा--"निःशेपच्युतचन्दनं स्तनतटं निर्मष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याशातपीड़ागमे वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥” इति । इह मिथ्यावादिनीति सम्बोधनेन बान्धवजनस्याशातपीड़ागम इत्यनेन च सखेदवं बान्धवपदेन व्यज्जितम्। इष्टस्य स्वसङ्गमाकाझ्या कान्तस्यानयनाथ दूतीप्रेषणस्य विवक्षया दूत्याः स्वसङ्गमस्य प्रतिषेध इव विशेष उक्तः-वापी स्नातुमितो गतासि न पुनस्तस्याघमस्यान्तिकमित्यनेनेति। मम सङ्गमार्थ कान्तसन्निधाने खामहं प्ररीरम्, खया तु स्वयं तेन रमिताऽभूरिति-नोचितमिति प्रतिषेध इव विशेषो व्यज्यते इति स्तुतं नामाथप्राप्तिः।।
इदं पुनर्वक्ष्यमाणं स्तोत्रं नामाक्षेपः। “अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः।” यत्राक्षेपेऽधिकारादपेतस्यान्यस्य वस्तुनो या स्तुतिस्तत्स्तुतिकरणमाक्षेपः। स्तोत्रं नामाक्षेपोऽर्थापत्तिरेव । थथा-“धन्यासि या कथयसि प्रियसङ्गमेषु विस्रब्धचाटुकशतानि रतान्तरेषु। नीवी प्रति प्रणिहितेऽपि करे
वेन व्याप्रियमाणत्वात् तथा तयैव ऊहरूपया प्रायो लोकानां व्यवहारादिह प्रमाणत्वेनोक्ता ; अत एव प्रदेशान्तरे युक्ति विना यथोक्त प्रमाणत्रयं दर्शयिष्यति–“त्रिविधा परीक्षा सहोपदेशेन"
For Private and Personal Use Only