SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ चरक-संहिता। [इन्द्रियोपक्रमणीयः श्मशानायतनसलिलौषधिद्विजगुरुसुरालयेषु न सन्ध्ययोः नाति न निषिद्धतिथिषु नाशुचिः नाजग्धभेषजः नाप्रणीतसङ्कल्पः नानुपस्थितप्रहर्षो नाभुक्तवान नात्यशितो न विषमस्थो न मूत्रोच्चारपीडितो न श्रमव्यायामोपवासक्लमाभिहतो नाऽरहसि व्यवायं गच्छेत् । न सतो न गुरून परिवदेत्। नाशुचिरभिचारकर्मचैत्यपूज्यपूजाध्ययनमभिनिवर्तयेत् । न विदुरत्वनात्तवीषु नाभ्युदितासु दिक्षु नाग्निसंप्नवे न भूमिकम्पे न महोत्सवे चवरमङ्गनम्, श्मशानं स्पष्टम्, आयतनं प्राणिवधस्थानम् । सलिले ओषध्याद्यालयेषु न स्त्रियं गच्छेत् । न सन्ध्ययोः प्रातःसायंसन्ध्ययोः। नाति स्त्रियमतिव्यवायं न गच्छेत् । निषिद्धतिथिषु व्यवायं न गच्छेत् ; पूर्णिमाष्टमीचतुद्देशीकुहषु संक्रान्तिषु च नित्यश्राद्धदिनवज्ज श्राद्धदिनादिषु । नाशुचिरशुचिः सन्। अजग्धभेपजोऽनुपयुक्तवाजीकरणौषधः। नाप्रणीतसङ्कल्पः येन प्रकर्षण न नीतः प्रापितो मनसि सङ्कल्पो मैथुनेच्छाकर्मा सोप्रणीतसङ्कल्पः। अनुपस्थितप्रहर्षः अजातमेहनोच्छायः। न अभुक्तवान् भुक्तवानेव । नात्यशितः अतिभुक्तवान् । न विपमस्थः विषमस्थानस्थितः । न मूत्रोच्चारपीडित इति स्पष्टम् । नाऽरहसि अनिज्जने स्थाने व्यवायं न गच्छेत् । व्यवायं मैथुनम् । स्त्रियं गच्छेदिति गमयेत् इति कश्चित् । व्याप्त्यर्थं गम्ये भावप्रत्ययान्तस्य व्यवायस्य कर्मेति भ्रमः। वस्तुतो नायोनावित्यन्तेषु स्त्रियं न गच्छेदित्यन्वयः। न चैत्येत्यादिषु व्यवायं न गच्छेदित्यन्वयः। ___ न सतो न गुरून् परिवदेत् । न मिथ्यावादं वदेत् । नाशुचिः सन्नभिचारकर्म चैत्यस्य ग्राम्यसाधारणदेवस्य पूज्यस्य च पूजामध्ययनं वेदादीनामभिनिवर्तयेत्। न विद्य, स्वित्यादिनाध्ययनमभ्यस्येदित्यनेनान्वयः। अनार्तवीषु भिन्नतुकाले विदुरत्सु जातासु तद्दिने। अभ्युदितासु दिग्दाहवतीषु दिक्षु । अग्निसंप्लवे ग्रामनगरादौ वह्निना दग्धे । भूमिकम्पे इति स्पष्टम् । महोत्सव मित्यस्यान्ते अभिगच्छेदिति शेषः ; अन्ययोनिरसवर्णा ; ओपध्यादिभिरालयशब्दः सम्बध्यते ; मातिथिष्विति न निषिद्धासु मैथुनं प्रतिपत्पूर्णिमाप्रभृतिषु ; अजग्धभेषजोऽनुपयुक्तवृष्यभेषजः ; अनुपस्थितनहर्षोऽजातध्वजोच्छ्रायः ; अरहसि अविजने : अभ्युदितासु दिन दाहवतीपु दिनु For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy