SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः सूत्रस्थानम् । ४२५ क्षुयान्नाद्यान्न शयीत। न वेगितोऽन्यकार्यः स्यात् । न वाय्वग्निसलिलसोमार्कद्विजगुरुप्रतिमुखं निष्ठीविकावातवच्चोंमूत्राण्युत्सृजेत्। न पन्थानमवमूत्रयेत् न जनवति नान्नकाले न जपहोमाध्ययनबलिमङ्गलक्रियासु श्लेष्मशिवाणकं मुञ्चेत् । न स्त्रियमवजानीत, नातिविश्रम्भयेत, न गुह्यमनुश्रावयेत, नाधिं कुर्यात। न रजस्वलां नातुरां नामेध्यां नाशस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणं नाकामां नान्यकामां नान्यस्त्रियं नान्धयोनि नायोनौ न चैत्यचत्वरचतुष्पथोपवन शयीतेति बोध्यम् । न वेगितः इति स्पष्टम् । न वाय्वादिप्रतिमुखं सम्मुख निष्ठीविकां मुखेन स्वल्पकासादिकफोद गिरणम् । न पन्थानमवमूत्रयेत पथि न मूत्रयेत, न जनवति। नान्नकाले, न जप्यादिक्रियासु च श्लेष्मसिङ्घाणकं कर्फ नासिकातो मुञ्चेत्। न स्त्रियमवजानीतेति स्पष्टम् । तथा स्त्रियं नातिविश्रम्भयेत अतिविश्रम्भणं न कुर्यात् । एवं न गुह्यमनुश्रावयेत्, स्त्रियमित्यन्वयः। तथा नाधिं कुर्यात् अधिकारिणी स्त्रियं न कुर्यात् । न रजस्वलामित्यादिभिर्व्यवायं गच्छेदित्यनेनान्वयः। स्त्रियमित्यनुवत्तते सर्वत्र। नामेध्यामस्पृश्यां न व्यवायं गच्छेत् । नाशस्तां कुष्ठादिरोगेण स्वभावतो वाऽप्रशस्ताम् । नानिष्टरूपोपचारामभिमतरूपरहितामभिमतोपचाररहिताश्च न गच्छे त्। नादक्षिणामननुकूलां वामामित्यर्थः । नाकामां स्वं न या कामयते तां न गच्छेत्। नान्यकामामन्यपुरुषे कामवतीं न गच्छे त् । नान्यस्त्रियमन्यपुरुषेण विवाहितां स्वेनाविवाहितामेव । नान्ययोनिमसजातीयां न गच्छेत्। योनिग्रहणेन देवनरराक्षसादिसमानप्रकाराणां परिग्रहात् मनुष्यादीनां राक्षसादियोनिव्यवच्छे दः । नायोनाविति योनि विहाय अन्यत्र पायौ स्त्रियं न गच्छेत। न चैत्यादिषु स्थानेषु खियं व्यवायं गच्छेत् ; चैत्यं ग्रामस्य साधारणदेवस्थानं प्रधानक्षो वा, नाथादनृजुः, न शयीतानूजुरिति योज्यम् ; नातिविश्रम्भयेत् नातिप्रश्रयवर्ती कुर्यात् ; नाधिकुर्यात् न सर्वत्राधिकृतां कुर्यात् ; अशस्तां कुष्ठादिसम्बन्धेन ; नान्ययोनि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy