SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः ३८४ सूत्रस्थानम् । ह्य ककालमनेकेषु प्रवर्तते । तस्मान्नैककाला सर्वन्द्रिय___ नन्वेवं तहोकस्मिन् पुरुषे नाना चेत् सत्त्वं तदा चाक्षुषश्रोत्रादिका सर्वा बुद्धियुगपद्भववित्याशङ्कयाह --न चानेकखमित्यादि। एवमुक्तं सत्त्वमेकस्मिन् पुरुषेऽनेकमपि न तस्यानेकखम् । आवस्थिकानेकस्य तस्य वस्तुतो नानेकखम् अपि खेकखमेव । यथैको देवदत्तः पुरा वालकस्ततो युवा ततश्च वृद्ध इत्यनेकावस्थोऽप्येक एव। कस्मादित्याह--नाप्वेकं हीत्यादि। हि यस्मादण्वेकं यदणु चैकश्च भवति, तदेककालं नानेकेषु प्रवर्तते। इदमनेक चेदभ विष्यत् तदा युगपदनेकेषु प्रावर्तिप्यत। यथा पञ्च वाणा रथिना क्षिप्ता युगपलक्ष्ये प्रवर्तन्ते। यथा वा युगपत् पतन्तो जलष्टिधाराविन्दवोऽनेकेषु युगपत प्रवन्तन्ते इति। मनसोऽने कवाभावादणुबैकलाच युगपदनकेषु प्रवत्तेनाभावाच. नैककाला सबै न्द्रियप्रत्तिः। यथा देवदत्तो वाराणसी गच्छन न पुरुपोत्तमं याति । नन्वेकत्वेऽप्येकोऽर्कः खल्बनेकान् प्रकाशयतीति चेन्न, स हि महानकस्त्वन के प्रवर्तते, मनस्खेकमणु च तस्मादनेकेषु युगपत् प्रत्त्यभावात् मनसा स्वाथन्द्रियार्थसनिकऽपि सति नियतमनःप्रवृत्तिप्रयुक्तप्रवृत्तिकानामिन्द्रियाणां सर्वपां चक्षुरादीनां नैककाला प्रत्तिः। अनेकले तु युगपन सन्द्रियप्रवृत्त्या पश्यन् शृणोतीत्यादि स्यात् । गौतमेनाप्युक्तं "ज्ञानयोगपद्यादेकं मनो न युगपदनेकक्रियोपलब्धेलानचक्रदर्शनवत् तदुपभवति । ततश्चानेकमिव मनो भवति । तदेतत् प्रतिपादितमनेकत्वं परमार्थतो न भवतीत्याह न चेति । न चानेकत्वं मनस इत्यर्थः, चकारादमहत्त्वञ्च मनस इति समुच्चिनोति । यदुक्तम् .. "अणुत्वमथ चैकत्वं द्वौ गुणो मनसः स्मृतौ।” कुतो नानेकत्वमित्याह अनेकमेककालं प्रवर्त्तते, अनेक यन्मन: देवदत्तयज्ञदत्तविष्णुमित्रेषु दृष्टं, तदेककालं युगपत् अनेकेषु रूपज्ञानशब्दज्ञानगन्धज्ञानेषु वर्त्तते, एवं दृष्टं-तद् यदि एकपुरुपेऽपि बहूनि मनांसि स्युस्नदा तान्यपि युगपत् एकपुरुष एव रूपादिज्ञानेषु प्रवर्तेरन् , न तु प्रवर्त्तन्ते, तस्मादेकमेवैकपुरुपे मन इत्यर्थः । दीघी शप्कुली भक्षयतो युगपत पञ्च ज्ञानान्युत्पद्यन्त इति तु ज्ञानं युगपदुःपलपत्रशतव्यक्तिभेदज्ञानवद भ्रान्तं, परमार्थ तो युगपजज्ञानोत्पत्तौ हि सति विषयसन्निकर्षे सदैव हि युगपजज्ञानानि स्युः ; अत एव हि कारणात महत्त्वमपि मनसो नाम्नि, महत्त्वे हि सति युगपत्पन्चेन्द्रियाधिष्टानात ज्ञानोत्पत्तिः स्यात्, न च भवति ; तस्मादेकमणु च मन इति। यस्माच्चैकपुरुषे एक मनोऽणुपरिमाणञ्च, तस्मात् कारणात् नैककाला सर्बेन्द्रियप्रवृत्तिर्न युगपदिन्द्रियाणि स्वविषयोपलब्धौ प्रवर्तन्त इत्यर्थः । इन्द्रियाणि मनोऽधिष्ठितानि प्रवर्तन्ते, तेन, यदा मनश्चक्षुरधितिष्ठति तदा न घ्राणादीनि ; एवं यदा घ्राणमधितिष्ठति तदा न चक्षुरादीनि। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy