SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ चरक-संहिता। ( इन्द्रियोपक्रमणीयः ___ स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाच्चानेकमेकस्मिन् पुरुषे सत्त्वं रजस्तमः सत्त्वगुणयोगाच्च। न चानेकत्वं नागवेकं * ब्रह्म व वद्विस्फुलिङ्गवत् । योनिस्तु रूपान्तरोत्पत्तिस्थानं न हि महतो ब्रह्मणो रूपान्तरखमात्मनः परममूक्ष्मत्वेऽप्यात्मनः समानप्रभावखादिति ।। २ ॥ गङ्गाधरः- ननु मनः किमेकस्मिन् पुरुषे नाना चैकं वेत्यत आह-. स्वार्थेत्यादि। एवमुक्तलक्षणं सत्वं, स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाच्च रजस्तमःसत्त्वगुणयोगाचानेकमेकस्मिन पुरुषे । स्वार्थस्य चिन्त्यविचार्यादेव्यभिचरणादनकान्तिकत्वात् तदनेकावस्थवाद नेकं सत्त्वमेकस्मिन् पुरुष भवति । कचिच्चिन्त्यते, कचिन्न चिन्त्यते, कचिदन्यच्चिन्त्यते, इत्येवं स्वार्थ व्यभिचारादनेकं मनः। यदा चिन्तयति तदा चिन्त्यानुभावकं. यदा विचारयति तदा विचार्यानुभावकमित्युपाधिभेदात् । तथेन्द्रियार्थव्यभिचरणाचाने मनः । कचिद् रूपं नीलं चक्षुदर्शयति तदा नीलदर्शकं, कचिद्रक्तं दर्शयति तदा रक्तदर्शकमित्येवं श्रोत्राद्यर्थेऽपि व्याखेरयम् । तथा सङ्कल्पानां कृप्तीकरणानां प्रतिपन्नानां भावानां सम्यगिदं ममावद्यमिदमनवद्यमित्यादिकल्पनानां व्यभिचरणाच्चानेकं मनः। कचिदगुणवत्तया कल्पते कचिद्दोषवत्तयेति, गुणसङ्कल्पकः क्वचिद् दोपसङ्कल्पकः कचिदिति । तथा रजोगुणबहुलवं यदा तदा कामादिर्भवति, यदा तमोबहुलं तदा मोहमयादिक स्यात् । यदा शुद्धसत्त्ववहुलं स्यात् तदा धर्मज्ञानशौचादि म्यादिति रजस्तमःसत्त्वगुणयोगाचानकं सत्त्वमिति। चक्रपाणिः- इदानीं तन्मन एकस्मिन् पुरुपे उपाधिभेदादनेक परमार्थतस्त्वेकमिति दर्शयति-. स्वार्थेत्यादि। सत्त्वं मनः, अनेकमनेकमिव, यतः स्वार्थेन्द्रियसङ्कल्पव्यभिचरणाच्च तथा रजस्तमःसत्त्वगुणयोगाच्च, चकारः परस्परसमुच्चये, स्वार्थस्य मनोऽर्थस्य चिन्त्यस्य व्यभिचरणाच्च एवं चिन्त्यमर्थं परित्यज्यान्यार्थस्य ग्रहणादित्यर्थः। एतेनेतदुक्तं भवति यत एकमेव मनो यदा धम्मै चिन्तयेत् तदा धर्मचिन्तकं, यदा धर्म परित्यज्य कामं चिन्तयति तदा कामचिन्तकमित्येवमादिना धर्मभेदेन भिन्नमयभिधीयते । एवमिन्द्रियार्थव्यभिचरणेऽपि ; यदा रूपं गृह्णाति तदा रूपग्राहकं, यदा गन्धं गृह्णाति तदा गन्धग्राहकमित्यादि वाच्यम् । एवं सङ्कल्पव्यभिचरणेऽपि व्याख्येयं ; तत्र सङ्कल्पप्रतिपन्नानां भावानाम् उपकारकं ममेदमपकारकं ममेदमिति वा गुणतो दोपतो वा कल्पनम् । एतद व्यभिचरणे च कदाचिद गुणकल्पनं कदाचिद्दोपकल्पनमिति मनोभेदो व्याख्येयः। तथा एकपुरुष एकमेव मनो यदा बहुरजोयुक्त भवति तदा क्रोधादिमद्भवति यदा बहुतमोयुक्त भवति तदाऽज्ञानभयादिमद्भवति, यदा सत्त्वयुक्तं भवति तदा सत्यशौचादियुक्त * नावेकमित्यत्र न हेयमिति चक्रपाणिः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy