SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः । सूत्रस्थानम् । समपित्तानिलककाः केचिद्गर्भादि मानवाः । दृश्यन्ते वातलाः केचित् पित्तलाः श्लेष्मलास्तथा ॥ त्यागजदोषाय न भवन्ति । असात्माजा हि न रोगाः स्युः सहसा त्यागादित्युक्तः, न च भवन्ति तथा गुणाः। अनभ्यस्ता अपि हिताः क्रमेणोपचिता वद्धिताः सन्तोऽपुनावं यान्ति असात्म्यासेवनजदोपाय न भवन्ति अप्रकम्पमा अप्रचाल्याश्च भवन्ति चिरस्थिता इत्यर्थः । हितमपि हि सहसोपयुज्यमानमनिवधारुच्यादीन् करोति तस्माद्धितस्यापि क्रमेणोपचयेन अभ्यासः कर्तव्य इति दर्शितम् ॥२२॥ ___ गङ्गाधरः-- अथैतत् सर्वमभ्यस्यमानत्वं प्रकृतिज्ञानमपेक्षते, न हि सर्व सर्चपुरुषस्य हितम हितं वा, कस्यचिद्धि किश्चिद्धितम हितञ्च कस्यचित् यत्तत् कस्यचिदहितं हितश्च ति प्रकृतिभेदेन पुरुषभेदमाह-समपित्तेत्यादि । अनिलश्च पित्तश्च ककच ति द्वन्द्वे पित्तस्य पूवेनिपातः; बहुपदद्वन्द्र पूर्वनिपातनियमाभावात् । समा अवैकारिकपानावस्थिताः पित्तानिलकका येषां ते तथा। ते समपित्तानिलकका मानवाः केचित् गर्भादि यावद गर्भ गर्भमारभ्य दृश्यन्ते। केचिद गर्भादि गर्भाशनात् प्रभृति वातलाः वाताधिकाः, केचित् पित्तलाः पित्ताधिकाः, केचित् श्लेष्मलाः श्लेष्माधिकाः ; तथा दृश्यन्ते केचित् वातपित्तलाः, केचिा वातश्लेष्मलाः, केचित् पित्तश्लेष्मला इति कश्चिद व्याख्यातवान। वस्तुतस्त्वत्र समवं पित्तानिल रोगाः स्युः सहसा त्यागशीलनात् । अप्रकम्पमा अनचाहया भवन्ति गुणा इति सम्बन्धः; पथ्यमपि नभ्यस्तं सहसोपयुज्यमानमरुच्य ग्निबधादीन् जनयति ॥ २२ ॥ चक्रपाणिः -- इह स्वस्थहितं सामान्येनैव रक्तशाल्यादि प्रतिपादितं, स्स्थश्च प्रकृतिभेदेन नानाप्रकारः, तस्तेषां हितानामपि नानासकारत्वमुच्यते ; तेन तत्प्रतिपादनार्थ प्रकृतिभेदमेव ताबदाह-समपित्तानिलेत्यादि । समा अवैकारिकमानव्यवस्थिताः पित्तानिलकफा यस्य स तथा ; गर्भादि गर्भाधानादि शुक्रशोणितजीवसंमूर्च्छनादिति यावत् ; वातला वातप्रधानाः, एवं पित्तलाः इले मलाश्च ; सर्वत्र गौदीति योज्यम्। अत्र पित्तग्रहणमादौ च्छन्दोऽनुरोधात् ; यद्वा पित्तसमानस्य वह्नौरवप्रदर्शनार्थम् ; यदि वा प्रकृत्यारम्भे वातस्याप्राधान्यख्यापनार्थं ; वातप्रकृतिहि सर्वत्र प्रत्यवशे भवति । इह च प्रत्येकदोपप्रकृतिग्रहणेनैव द्वन्द्वप्रकृतिरपि ग्राह्यः संयोगरय संयोगिनामान्तरीयकत्वात् , निदान इव वातादिज्वराभिधानेन इन्द्वजज्वराभिधानं, तेन रोगभिषगजितीयोक्ता द्वन्द्वजा अपि तिस्रः प्रकृतयो गृहीता भवन्ति। अन्ये तु द्वितीय For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy