SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। { मात्राशितीयः मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् । सर्बेन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ॥ न चास्य रोगाः सहसा प्रभवन्त्यूद्ध जत्र जाः । जीर्य्यतश्चोत्तमाङ्ग च जरा न लभते बलम् ॥ २३ ॥ चन्दनागुरुणी पत्र दा/त्वक मधुकं बलाम् । प्रपौण्डरीकं सूक्ष्मैलां विडङ्गविल्वमुत्पलम् ॥ होवेरमभयं वन्यं त्वमुस्तं सारिवां स्थिराम्। सुराहपृश्निपर्णीच्च जीवन्तीञ्च शतावरीम् ॥ हरेण बृहतीं व्याघ्री सुरभी पद्यकेशरम्। विचाचयेच्छतगुणे माहेन्द्र विमलेऽम्भसि ॥ तैलादशगुणं शेषं कषायमवतारयेत् । तेन तैलं कषायेण दशकृत्वो विपाचयेत् ॥ सेवमानस्याभ्यधिकं बल' लभन्ते अस्य च मुखं प्रसन्नोपचितं प्रसन्नश्चोपचितं चेति। सर्वेन्द्रियाणां वैमल्यं भवति, बलञ्चाधिकं भवति । जीर्यंतश्चास्य नस्यं सेवमानस्य उत्तमाङ्ग मूद्धि जरा बलिपलितरूपा बल न लभते ॥२३॥ ___ गङ्गाधरः-इति गुणतो नस्यकम्मोक्त्वा नस्यार्थश्च विहितमणुतैलविधानं वक्तमुपक्रमते-चन्दनेत्यादि। दाास्त्वक दार्चीत्वक, प्रपौण्डरीकं पुण्डरीयकाष्ठं, विल्वं विल्वमूलम्, अभयं वीरणमूलं, वन्यं कैवर्तमुस्तकं, त्वक् गुड़त्वक, मुस्तं भद्रमुस्तं, सारिवा अनन्तमूलं, सुराह देवदारु, सुरभिः शूकशिम्बा, पद्मस्य केशरं किञ्जल्कः। माहेन्द्रे विमलेअम्भसीत्यान्तरीक्षजले तैलाच्छतगुणे विपाचयेत, ततस्तैलादेव दशगुणं शेषं कषायमित्यन्वयः। तेन प्रतिवारं तैलाद्दशगुणे कषाये तैलं दशकृत्वो यथा राश्च। उत्तमाङ्गेष्विति बहुवचनं शिरसोऽभ्यर्हितत्वात् । यदि वा जरा बलिपलितादिलक्षणा या सा उत्तमा प्रकर्षप्राप्ताऽङ्गेषु मस्तकादिषु निषिध्यते ॥ २३ ॥ चक्रपाणिः-चन्दनेत्यादौ दावशास्त्वक् दात्विक, जीवन्ती सुवर्णनाला स्वनामप्रसिद्धा, सुरभी शूकशिम्बा, पद्मस्य केशरं पद्मकेशरं, माहेन्द्र आन्तरीक्षे ; शतगुणे तैलादिति योज्यं ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy