SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६० www.kobatirth.org चरक संहिता | ● 黃 Acharya Shri Kailassagarsuri Gyanmandir दन्तदौर्बल्यमात्रावः त्रस्रोतोघ्राणादिदोषजः * । पूतिघ्राणास्यगन्धश्च दन्तशूलमरोचकः ॥ हनुमन्याग्रहः कण्डूः किमयः पाण्डुता मुखे । श्लेष्मप्रसेको वैस्वय्यं गलशुण्डुपजिह्विका ॥ खालित्यं पिञ्जरत्वञ्च केशानां पतनं तथा । क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता ॥ धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् । शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च ॥ न च वातकफात्मानो बलिनोऽप्यूर्द्धजत्र जाः । धूमवक्तूकपानस्य + व्याधयः स्युः शिरोगताः ॥ १३ ॥ स्वास्थ्यातुर्यव्याधिहरणकम्मेप्रशंसायां बोध्यम् । आस्रावः स्रोतोघ्राणाक्षिदोपज इति योज्यम् । स्रोतो मुखस्रोतो नव प्रधानरन्धाणि वा तत्रापि घ्राणाक्षीति विशेषेण नासानयनदोषजस्त्रावप्रशमनबोधार्थम् । घ्राणास्ययोर्गन्धः, स च पूर्तिः । केशानां पिञ्जरलं खर्व्वत्वेनातिकुश्चितत्व तथा पतनम् । बुद्धेर्मोहो मनोमोहः बुद्धिस्थानत्वेन मनसो बुद्धिशब्दवाच्यत्वात् । शिरोरुहाः केशाः, शिरसश्च कपालानि तेषाम् इन्द्रियाणां बुद्धीन्द्रियाणां स्वरस्य चाधिक बल भवतीति योज्यम् । बलिनोऽपीति बलवत्कारणजाता अपि वातकफात्मानो व्यायय ऊर्द्ध जत्रुजा जत्रर्द्ध देशकण्ठास्यकणेनासाक्षिशिरोभवास्तत्रापि विशेपेण शिरोगता न च स्युने वन्याङ्गजा न स्युरिति । धूमवऋकपानस्य धूमस्य वपान वक्रण पान' यस्य तस्य तथा। मुखेन धूमं पीतवतो नासया वमनादिति भावः ॥ १३ ॥ श्रोत्रघ्राणाक्षिदोषजः इति वा पाठः । + धूमरककपालस्येति कचित् पाठान्तरम् मात्राशितीयः एब, बलिनोऽपीति बलवत्कारणा इत्यर्थः । ऊर्जा अनजस्येनैव शिरोगता अपि लब्धास्ते पुनरभिधीयन्ते विशेषविधानार्थम् ॥ १३ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy