SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः २८९ सूत्रस्थानम् । श्वेता ज्योतिष्मती चैव हरितालं मनःशिला। गन्धाश्चागुरुपत्राद्या धमो मूर्द्धविरेचनम् ॥ १२ ॥ गौरवं शिरसः शूलं पीनसा.वभेदको। कर्णादिशूलं कासश्च हिकाश्वासौ गलग्रहः॥ गङ्गाधरः-मूद्धि, बद्धकफस्य स्वस्थस्य शिरोविरेचनाथ बैरेचनिकधूमपानवर्ति दर्शयति-श्वेतत्यादि। श्वेता श्वेतापराजिता, ज्योतिष्मती लताफुटकी, हरिताल द्विधा तत्र सपत्रमुत्तमम्, मनःशिला कुनटी, गन्धाश्चागुरुपत्राद्या ज्वरचिकित्सिते अगुवादितलद्रव्याणि अगुरुकुष्ठतगरपत्रेत्यादिनोक्तानि यानि तानि अगुरुसहितपत्रादीनि कुष्ठतगरवज्जितानि जलेन पिष्ट्वा उक्तरूपा वत्तिः कृता मूर्द्धविरेचनधूमो भवतीति वैरेचनिकी वर्जिरियं शिरोविरेचनधृमार्था इति तां वर्ति यवसन्निभामित्यादि अग्निप्लुष्टामित्यन्तमत्राप्यनुवत्तते। अत्र कुष्ठतगरवज्जन मस्तुलुङ्गलावभयात्। वक्ष्यति च “धूमपत्ति पिबेगन्धैरकुष्ठतगरस्तथा” इति। शालाक्येऽपि “नतकुप्ठे नावयतो धूमवर्तिप्रयोजिते। मस्तुलुङ्ग विशेषेण ते तस्मान्नव योजयेत् ।” सुश्रुतेऽप्युक्तम् "एलादिना तगरकुष्ठवज्जम” इति ॥ १२ ॥ - गङ्गाधरः-धूमपत्तित्रयपाने धूयगुणान् प्राह-गौरवमित्यादि। गौरवं नातिस्फुटवातादिवैषम्ये धातुसाम्यवद व्यवहारात नातिबाधाभावाञ्च यच्छिरसा गौरवशूलादयस्ते सव्वें धूमपानात् प्रशाम्यन्ति। एतेन धातुवैषम्ये व्याधितत्वदशायामपि सुतरां शिरोगौरवादयः प्रशाम्यन्तीति लभ्यते। एवं सम्वत्र चक्रपाणिः-वैरेचनिकधूमपानवत्ति दशयति-श्वेतेत्यादि । श्वेताऽपराजिता, गन्धाः सुगन्धद्रव्याणि, तेषां विशेषणमगुरुपत्राद्याः, अगुरु च पखाद्याश्च अगुरुपत्राद्याः ; अगुरुपत्राद्याश्च ज्वरे वक्ष्यमाणा: 'अगुरुकुष्टतगरपत्र' इत्यादिगणा मन्तव्याः। अगुाद्या इति न कृतं, कुष्ठतगस्योरतितीक्ष्णत्वेन मस्तुलङ्गकस्रावभयात् परिहारार्थे ; वक्ष्यति च त्रिमर्मीये.---'धूमवतिं पिबेद गन्धैरकुष्टतगरैस्तथा”। शालाक्येऽप्युक्त “नतकुष्ठे स्रावयतो धूमवर्तिप्रयोजिते । मस्तुलुङ्ग विशेषेण तस्मात् ते नैव योजयेत् ।” सुश्रुतेऽप्युक्तम् "एलादिना तगरकुष्ठवर्जेन” इति ॥१२॥ चक्रपाणिः-धूमपाने गुणान् दर्शयति-गौरवमित्यादि । शिरोरुहाः केशाः ; कपालाश्च शिरस For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy