SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽध्यायः। अथात आरग्वधीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्र यः ॥ १॥ आरग्वधः सैड़गजः करो वासा गुड़ ची मदन हरिद्र । श्राह्वः सुरातः खदिरो धवश्च निम्बो विडङ्ग करवीरकत्वक ॥ गङ्गाधरः--अथातुरहितविविधौषधयवागूप्रसङ्गसङ्गत्या प्रदेहचूर्णात्मकान्यातुरहितान्यौषधानि वक्तुमारग्वधीयाध्यायमारभते-अथात इत्यादि। अथात इति प्राग्वद व्याख्येयम् । आरग्वधीयमिति वक्ष्यमाणम्, अध्यायारम्भः, आरग्वध इति पदमधिकृत्य कृत इत्यारग्वधीयस्तं तथा. अध्यायमित्यादि आत्रेयान्तं प्राग्वद व्याख्येयम् ॥१॥ गङ्गाधरः-आरग्वध इत्यादि-सर्जा इत्यन्तै स्त्रिभिः श्लोकैरर्द्धरूपैः षट् चर्णप्रदेहाः चर्णाश्च व प्रदेहाश्च भिषजा प्रयोज्याः, इति द्वयं कथंप्रकारेणेह विहिता इत्यत आह-गोपित्तपीताः पुनरेव पिष्टा इति। आरग्वधस्य पत्रम, एडगजा चाकुन्दा इति लोके तस्य वीजम् । करञ्जस्य च वीजम् । वासापत्रम् । चक्रपाणिः-द्विविधं हि भेषजम् ; अन्तःपरिमार्जनं वहि परिमार्जनञ्च । तत्रापामार्गतण्डुलीयेन पञ्चकर्म यवागूरूपमन्तःपरिमार्जनमभिधायाऽवशि वहिःपरिमार्जनं प्रलेपाघारग्वधीयेनाह-- अथात आरग्वधीयमित्यादि। यद्यपि कुष्ठचिकित्सितं पृथगेव चिकित्सास्थाने भविष्यति, तत्रैव चावसरप्राप्ता एत आरग्वधादयो वक्त मुचिताः, तथापीह पृथक् कुष्टरोगाणामभिधानेन कुष्ठस्यानुबन्धित्वेन च महारोगत्वं ख्यापयति। अव्यवहितो ह्यर्थः पुनःपुनरभिधीयते । इयञ्च कुष्ठचिकित्साऽनागतावेक्षणतन्तयुक्तया निदानस्थाने हेतुलक्षणादिभिर्लक्षितं कुष्टमुद्दिश्योक्ता, तेनालक्षितस्य चिकित्साऽभिधीयमानाऽज्ञातविषयत्वेन न युज्यत इति यच्चोच्यते तन्निरस्तं स्यात् । यद्यपि राजयक्ष्मप्रभृतयोऽपि महारोगाः सन्ति, तथापि न ते भूरिवहिःपरिमार्जनविषया यथा कुष्ठमिति कुष्टविषया एव वहिःपरिमार्जनयोगा अभिधीयन्ते, कुष्ठहरवहि परिमार्जनोपघातेन च वातोपघाताः कोलं कुलत्थादयोऽभिधास्यन्ते। किञ्च कुष्ठहरवहि.परिमार्जनप्रयोगाणामिदं स्वरूपं यच्छोधनानन्तरं प्रयुज्यमानाः सिद्धिभाजो भवन्ति, यदुक्तं ये लेपाः कुष्ठानां प्रयुज्यन्ते निहितास्रदोषाणाम् । संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम् ॥” तत् पूर्वाध्याये संशोधनमभिधायेह कुष्टप्रयोगाऽनवसरप्राप्ताऽनभिदधता आचार्येण साधुग्रन्थनिवेशः कृतः। यद्यपि “खदिरः कुष्टहराणाम्” इति वचनेन खदिरः कुष्टहरभेषजेषु प्रधानं, तथापि खदिरं परित्यज्यारग्वधमादावुपदिशति-कुष्टवहिः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy