SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २य अध्यायः ] सूत्रस्थानम् । पूर्वं मूलफलज्ञान - हेतोरुक्तं यदौषधम् । पञ्चकर्माश्रयज्ञान- हेतोस्तत् कीर्त्तितं पुनः ॥ स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान् । भिषगौषधसंयोगैश्चिकित्सां कर्त्तुमर्हति ॥ २५ ॥ इति अग्निवेशते तन्त्र चरकप्रतिसंस्कृते अपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः ॥ २ ॥ २२६ पुनरुक्तम् । मलफलग्रहणशापनहेतोर्यदौपत्रं मूलिनी- फलिनी-संज्ञया पर्व्वमुक्तं तदौषध पञ्चकम्माश्रयत्वमात्रण निर्दिष्टमपि तदौषधं पञ्चकर्म्मसाध्यव्याधिसाधनत्वज्ञानहेतोः पुनरत्राध्याये कीर्त्तितमिति पुनरुक्तमपि न अत्र हेतुमाह, स्मृतिमानित्यादि । हेतुयुक्तिशो व्याधिसाधनभेषजकल्पनविशः युक्तिशो मात्रावत्तया द्रव्यवलन्याधिवलव्याधितवलादानुसारेण प्रयोगविशश्वत्यर्थः । जितात्मेति जित आत्मा मनो येन स भ्रमप्रमादरहित इत्यर्थः । प्रतिपत्तिमान् यशस्वी । एवम्भूतो भिषगौषधसंयोगेद्रव्याणि संयोज्य चिकित्सितुमर्हतीत्यर्थः ॥ २५ ॥ अध्यायसमाप्तिमाह – अग्निवेशेत्यादि । प्राग्वद व्याख्यातव्यम् । पञ्चत्रिंशत्श्लोकी चायमध्यायः ॥ २ ॥ इति श्रीमद् गङ्गाधररायकविरत्नकविराजकृते प्राग्वच्चरकजल्पकल्पतरौ द्वितीयाध्यायजल्पो नाम द्वितीयशाखा ॥ २ ॥ प्राधान्यं वाऽपामार्गादीनां सङ्क ेतम्, अत उक्त “पञ्चकर्म्माश्रयज्ञान - हेतोस्तत् कीर्त्तितं पुनः " इति । एतदध्यायप्रतिपादितायाः पञ्चकम्र्मप्रवृत्तेदुर्ज्ञेयत्वेन यथाभूतेन वैदेवन चिकित्सा कर्त्तव्या, तादृशं वैद्यमाह - स्मृतिमानित्यादि । प्रतिपत्तिरुत्पन्नायामापदि झटिति यथाकर्त्तव्यताज्ञानं तद्वान् प्रतिपत्तिमान् ॥ २५ ॥ For Private and Personal Use Only इति चरकचतुरानन - श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायाम् अपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः ॥ २ ॥
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy