SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] सूत्रस्थानम् । १६६ सौवर्चलं सैन्धवञ्च विड़मौद्भिदमेव च। सामुद्रण सहैतानि पञ्च स्युलवणानि च ॥ स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि च । आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा। अधोभागोड़ भागेषु निरूहेष्वनुवासने ॥ अभ्यञ्जने भोजनार्थे शिरसश्च विरेचने । शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च। अजीर्णानाहयोर्वाते गुल्मे शूले तथोदरे॥ ४२ ॥ विहिता वातपित्तककापहा वातादीनां वैषम्यहारका न तु केवलास्तस्मात् स्नेहनादयः स्युः। कर्माण्येतान्येषां स्निग्धखोष्णवादिभिशे यानि प्रभावाद्वा ॥४१॥ गङ्गाधरः-उद्देशक्रमात् पश्च लवणान्याह-सौवच्चलमित्यादि। यद्यपि “सैन्धवं लवणाना"मिति वचनात् सैन्धवं सर्चलवणश्रेष्ठं, तथापि सौवर्चलस्यातिरोचकवादग्रेऽभिधानम् । औद्भिदमुत्कारिकेति लोके शाम्भरीत्यन्ये । सामुद्रं करकचमिति लोके। अपराणि लवणानि ह्यस्मिंस्तन्त्रे प्रायो न प्रयोक्तव्यतयोपदेक्ष्यन्ते। इति नामभिरुक्तानि। तानि कम्मभिरुपदिशति-स्निग्धानीत्यादि। स्निग्धानि आप्यखात्, उष्णानि आग्ने यखात्, तथा तीक्ष्णानि दीपनीयतमानि च वह्निवद्धनेषु श्रेष्ठानि चेत्यर्थः। वातादिहरणकर्मार्थ प्रयोगविधिमाह--आलेपनार्थ इत्यादि। स्नेहस्वेदविधौ स्नेहकम्मणि स्वेदकर्मणि च। अधोभागोद्ध भागेषु विरेचने वमने च, निरूहेष्वास्थापनेषु, अनुवासने स्नेहवस्तिकर्मणि, अभ्यञ्जने साङ्ग वाप्य स्नेहादिम्रक्षणक्रियायां, भोजनार्थे भोज्यद्रव्यसंस्कारार्थ, शिरसश्च विरेचने नस्यकर्मविशेषे, शस्त्रकर्मणि, वत्तार्थम् आनाहादौ फलवताथम्, अञ्जनेषु नेत्राञ्जनयोगेषु, उत्सादनेषु उद्वत्तनेषु च, अजीर्णे चतुर्विधे, चक्रपाणिः-लवणेषु यद्यपि सैन्धवं प्रधानं यतो वक्ष्यति "सैन्धवं लवणानाम्" इत्यग्नाधिकारे, तथापि सौवचलस्य रोचनत्वप्रकर्षात् तथा सैन्धवमनु प्राधान्याख्यापनार्थमित्यग्रे पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy