SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १म अध्यायः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । धामार्गवमथेदवाकु जीमूतं कृतवेधनम् । प्रकीर्य्या चोदकीर्य्या च प्रत्यकपुष्पी तथाभया ॥ अन्तःकोटरपुष्पीच हस्तिपर्याश्च शारदम् । कम्पिल्लकारग्बधयोः फलं यत् कुटजस्य च ॥ धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम् । मदनं कुटजञ्चव पुषं हस्तिपर्णिनी ॥ एतानि वमने चैव योज्यान्यास्थापनेषु च । नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पी विधीयते ॥ दश यान्यवशिष्टानि तान्युक्तानि विरेचने । नामकर्म्मभिरुक्तानि फलान्येकोनविंशतिः ॥ ४० ॥ १६७ For Private and Personal Use Only मदनफलानि । क्लीतकं यष्टीमधु, तच्चानूपं स्थलजञ्च द्विविधं ज्ञेय; यद्यपि सुश्रुतेऽस्य मूल प्रशस्तमुक्तं तथैव च व्यवहारस्तथाप्यस्य फल विरेचनेऽतिप्रशस्त मित्यतोऽस्मिंस्तन्त्रे फलिनीत्युक्त मिति । धामार्गवो घोषकः । इक्ष्वाकुस्तिक्तालावूः। जीमूतं घोपकभेदः । कृतवेधन ज्योतत्रिका लतापुटकीति लोके । प्रकीर्य्या चोदकीर्य्या च करञ्जद्वयम् । प्रत्यक्। पुष्पी अपामार्गः । अभया हरीतकी । अन्तःकोटरपुष्पी नीलनाम क्षुद्रवृक्षः । हस्तिपणच शारद फलम् न त्वन्यकालजम् । हस्तिपर्णी मोरटः । कम्पिल्लकं गुण्डारोचनी, कमलागु ड़ीति लोके, आरग्वधः शोणालु; तयोरपि फलं, सुश्रुते वारग्वधस्य पत्रमुक्तं प्रशस्तं तदतिप्रशस्तन्तु फलमित्यस्मिंस्तन्त्र फलिनीत्युक्तम । कुटजस्य च फलम् इत्येकोनविंशतिः फलिन्यः । तासां फलस्य कर्माण्याह, धामार्गव इत्यादि । हस्तिपर्णिन्यन्तानामष्टानां फलानि प्रभावात् वमने चास्थापने च योज्यानि, नस्तः प्रच्छद ने शिरोविरेचने वमने च पुनः प्रत्यपुष्पी विधीयते । अवशिष्टानि दश यानि तानि विरेचने योज्यानि, शङ्खिनी विङ्गस्थल जानूपजयष्टीमधुफल' प्रकीर्य्या चोदकीय पीतघोषकः, इक्ष्वाकुः तिक्तालाबुः, जीमूतो घोषकभेदः, कृतवेधनं ज्योत्स्नका, प्रकीर्योदकी करअद्वयं प्रत्यपुष्पी अपामार्गः, अन्तःकोटरपुष्पी नीलबुद्धा, हस्तिपर्णी मोरटः, अस्याश्च शरत्कालभवमेव फलं ग्राह्म, अत उक्त " हस्तिपणश्च शारदम्” इति ; कम्पिलकं गुण्डारोचनी ।
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy