SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [ दीर्घजीवितीयः अपि मानसत्त्वेन यदव्यपदिश्यन्ते तन्मनोभ्रंशप्राधान्येन । उद्रिक्तरजस्तमो, गुणाभ्यां निकृष्टीकृतसत्वगुणवतो मनो हि वातादिभिर्दूष्यते तेन वातादिजखेन व्यपदिश्यन्त इति शारीरमानसोभयदोषजवादुभयाश्रिता भवन्त्युन्मादादय इति। चेतनपुरुषस्यैवैतद्वदाधिकरणखाचे तनाचेतनप्राप्यप्राणिनामपि शारीरव्याधयो ये दृश्यन्ते तेऽप्युपलक्ष्याः। यथा वृक्षस्य कोटरो जलस्य नीलिका भूमेरूषर एवमादयः। नन्वस्तु द्वयमेतद व्याधीनामाश्रयो भवखेतद् द्वयाश्रयाणां व्याधीनां निरुक्त एव त्रिवियो हेतुसंग्रहः किन्वेषां व्याधीनां प्रतिक्रियया चारोग्यं किं सत्वात्म शरीरेति-त्रयात्मकपुरुषाश्रयमथ किमात्माश्रयमथवा सत्त्वाश्रयमथवा शरीराश्रयमित्याशङ्कयाह, तथा सुखानामिति। सुखानां धातुसाम्यपूर्वकोद्भवानां प्रेमास्पदरूपाणामारोग्याणामाश्रयोऽपि तथा शरीरं सरवसंशश्च चतनाधिष्ठितं शरीरं मनश्चेति द्वयम् । एतेनैतदुक्तं यत्रैव यो रोगस्तत्रैव तत्प्रशान्तौ तदारोग्यं न खन्यत्रेति शारीरमानसाश्रयवेऽपि रोगारोग्ययोरुपचारः पुरुषे बोध्यश्च तनानुप्रवृत्तः। कतिधापुरुषीये ह्य क्तम् । –“नाश्रयो न सुख नातिन गति गतिर्न वाक् । न विज्ञान न शास्त्राणि न जन्म मरणं न च ।। न बन्धो न च मोक्षः स्यान पुरुषो न भवेद्यदि। कारणं पुरुषस्तस्मात् कारणझं - रुदाहृतः ॥” इति। नन्वस्वारोग्याणामप्याश्रयो व्याध्याश्रय एव देहो पनश्चति द्वयम् । आरोग्याणां कारणमपि किं तव्याधिकारणमेवेत्यत आह, योगरिखत्यादि । तु शब्दो भिन्नक्रमे पूर्वेषां कालेत्यादीनामनुवृत्तौ च । सुखानामारोग्याणां धातुसाम्यपूवंकजातानां, सुखानां च कारणन्तु न व्याध्याश्रयवत् तुल्यमपि तु भिन्न तत् किमित्याह । योगः सम इति । कालबुद्धीन्द्रियार्थानां समो योगः सुखानां कारणमित्यर्थः। तत्र कालानां शीतोष्णवर्षलक्षणानां पप्णामृतूनां यथास्व लक्षणयोगः कालसमयोगः, कालसमयोगादपि प्राङ्गादीनां हेमन्तादीनाश्च वातादीनां वैषम्यचयादिहतुख यत् तत्प्राकृतं स्वाभाविकं क्षुत्पिपासाजराजन्ममरणादिवत् । समदर्शनशीला धीमनोनियमहेतुखशीला धृतियथार्थस्मर्तव्याश्रयरूपा स्मृतिस्ताश्च बुद्धिसंज्ञास्ततसमयोगः कर्तव्याकर्त्तव्यहिताहितमित्येतद्र पेण ज्ञानं धीसमयोगः। विषयप्रवणचित्तस्य विषये नियमतो योगो मनसि लब्धे संज्ञाशब्देनात्मशरीरसम्बन्ध मन उच्यते, शरीराधसम्बन्धस्य मनसो व्याध्यनाश्रयत्वात्। असमासेन च पृथगपि शरीरमनसोाध्याश्रयत्व दर्शयति, यतः कुष्टादयः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy