SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः सूत्रस्थानम् । १२६ शरीरं सत्त्वसंज्ञश्च व्याधीनामाश्रयो मतः । तथा सुखानां योगस्तु सुखानां कारणं समः ॥ २७॥ सततप्रवृत्तिः शरीरातियोगः। एवमिन्द्रियाणां स्वस्वसम्यगथै स्वशक्त्यनुरूपेऽन्यथायोगो मिथायोगः। सर्वशोऽयोगोऽयोगः। सततयोगोऽतियोगः । इत्येवं प्रागुक्ताश्च स्वयमेव ये तेषां सम्पगसम्यगभावानां त्रयो योगा द्विधा वोध्या इति ॥२६॥ गङ्गाधरः-ननु द्वयाश्रयाणामित्युक्तौ द्वयं यप्राध्याश्रयो नामोक्त त किमित्यत आह, शरीरमित्यादि । -अस्प वेदस्याधिकरणंपुमानुक्तः । स च संयुक्तसत्त्वात्मशरीरेति-त्रयात्मकस्तस्य समधातोः सुखिनश्च पुरुषस्य धातुसाम्यसुखरूपस्वास्थारक्षण विषमयातो?:खिनश्च तस्यातुररूपस्य धातुसाम्पसुखजननं तदेव धातुवैषम्यदुःखनिटत्तिकरण वेदस्यास्य च प्रयोजनमुक्तमित्यतस्तस्यैव पुरुषस्यात्माधिष्ठितं शरीरं सेन्द्रियं निरिन्द्रियं वा पञ्चमहाभूतविकारसमुदायात्मकम् । सत्त्वसंज्ञश्च मनश्चेति द्वयं व्याधीनां धातुवैषम्यत्रिधादुःखयोः पूर्वोत्तरकालभूतयोराश्रयो धातुवैषम्याश्रयस्तज्जातदुःखाश्रयश्चेति यावत् । मतो वेदविद्भिः सम्मतः। न खायुल क्षणोक्तं शरीरमिह शरीरं प्रकरणाभावात् । शरीरस्य प्रथममुपादानं सत्त्वात्माधिष्ठानखेन कायचिकित्साप्रधानतयाऽस्य तन्त्रस्य प्रायेण शारीरव्याधिषु प्रवर्तकलादिति । सत्त्वसंशमिति सत्त्वमित्युक्त्यैव मनोलाभे यत् सत्त्वसंशमित्युक्तं तत् सत्वगुणस्याशङ्कानिरासार्थम् । सत्त्वगुणबहुलत्रिगुणात्मकत्वेन तस्य हि सत्वसंशा। शरीरात्मसम्बन्धेनैव व्याध्याश्रयवं न तु केवलस्य वेदाधिकरणखाभावात् । कश्चित्तु आत्माधिष्ठितं शरीरं सत्त्वसंज्ञ पृथक् पृथक् व्याध्याश्रयश्चकारेण युगलमपि व्याध्याश्रयः स्याद यथा ज्वरकुष्ठादयः शारीरा एव व्याधयो भवन्ति, कामशोकादयस्तु मानसा एव, अपस्मारोन्मादादयो द्वयाश्रया एवेति व्याचष्टे । नच ततो व्याधीनां याश्रयवं व्याहन्यते, किन्वत ऊर्द्ध शारीरमानसदोषोपसमयोरुपदेशेन युगलस्याश्रयखालाभात् । उन्मादादयो हि शारीरदोषजा इति। हीनयोगस्य तु साक्षादपठनमयोगप्रभेदत्वात् स्वल्पयोगेऽप्ययोगो भवति, ययैकतण्ड . लाभ्यवहारेऽनशनमुच्यते ॥२६॥ चक्रपाणिः-द्वयाश्रयाणामित्यनेनोक्तमाश्रयं दर्शयति, शरीरमित्यादि।-अत्र शरीरमादौ कृतं शरीररोगाधिकारेणैवास्य तन्त्रस्य प्रवर्तकत्वात्, सत्त्वसंज्ञशब्देन मन उच्यते, किंवा सत्वशब्देनैव १७ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy