SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ चरक-संहिता। [ दीर्घजीवितीयः अश्वाण्डवद्वा यत्र च तिष्ठति तत एवोल्लम्फनेन तम् तदुत्पन्नद्रवयमाविशतीति। ____ अथ पुनरेतल्लक्षण व्याचष्टे। “यत्राश्रिताः कम्पगुणाः कारण समवायि यत् । तद वयमिति ।” कारणवचनेन कार्य इति ख्यापितम्। यत्र कार्ये कर्मगुणा आश्रिता भवन्ति तस्य यत् कारणं समवायि भवति न तु निमित्तं तस्य कार्यस्य तद द्रव्यम्। ये गुणाः सहजभावोत्पत्तौ नाभिवयक्ततया जाताः सहकारिकारणान्तरयोगे तु कार्ममारभमाणात् सहजभावात् तत्का-- रम्भककर्मणा काव्येऽभिवयज्यन्ते ते कम्मैगुणाः क्रियागुणा उच्यन्ते। तत्र तामसादेव खलु भूतादेरह काराज्जायमाने खे शब्दश्लक्ष्णसूक्ष्मल घुमृदुगुणा अनभिवयक्ततया जाता एव । वायो च मूक्ष्मविशदखररूक्षशीतलघुगुणा अनभिव्यक्ता जाता एव, स्पर्शस्तु साधारणो व्यक्ततया। तेजसि च विशदरूक्षलाघवसूक्ष्मतीक्ष्णोष्णगुणा अनभिव्यक्तत्वेन जाता एव, रूपन्तु साधारणं व्यक्तं जातम् । अप्सु च जायमानासु पिच्छिलमृदुसान्द्रसरमन्दशीतस्निग्धद्रव्यगुणा अनभिवयक्ता जाता एव, रसस्तु वयक्तः साधारणो जातः । पृथिव्यामपि स्थूलसान्द्रविशदस्थिरमन्दकठिनखरगुरुवगुणा अनभिव्यक्ता जाता एव, गन्धस्तु साधारणः प्रव्यक्त एव जातः। एवम्गत्मन्यव्यक्ताख्ये चतुविशे तत्त्वे कालानुपविष्टात् क्षेत्रवाधिष्ठितादनभिव्यक्तगुणरूपात् प्रधानात् कालेन क्षेत्रज्ञक्षोभणपूवकसङ्कोचविकाशाभ्यां प्रत्यक्तसत्त्वरजस्तमोगुणरूपेण निष्पद्यमानाजायमाने समसत्त्वरजस्तमोलक्षणे कालक्षेत्रप्रव्यक्तत्रिगुणप्रधानसमुदायात्मके संहते बुद्धिरत्यक्ता साधारणरूपा जातैव। तस्माज् ज्ञ आत्मेत्युच्यते चैतन्यं तु व्यक्तमेव जातमिति चेतनश्वोच्यते। मनसि च सात्त्विकादेव वैकारिकाख्यादहकाराज्जायमाने युगपजज्ञानोत्पत्तानुत्पत्तिहेतुगुणोऽव्यक्ततया जात एव। शब्द इवाकाशस्य न हि निगुण मनो जातमिति। काले चाव्यक्तात् वान्तनिविष्टकालांशेन सत्त्वादिगुणयुक्तेन जायमाने संवत्सरे चक्रवद्भ्रमणस्वभावे भावानां प्रत्यग्रभावसमभावापचयभावकृतपरिणामविरोधकृद्गुणस्वव्यक्त एव जात , शब्द इवाकाशस्य न हि निगुणः कालो जातः। दिशश्च प्राच्यादय आहङ्कारिकादाकाशाधिदेवताया दिशो, जायमानासु तासु प्राच्यादिषु समवायकेवलाधारस्य विभुद्रव्यस्य तथा समवायकेवलाधेयस्य सामान्यादेश्च व्युदासः सिद्धो भवति ॥२३॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy