________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'म अध्यायः ]
सूत्रस्थानम् ।
१०५
समवायस्त्वपरो नास्तीति व्याख्यातं यत् तन्न । खादीनां शब्दादिगुणा वावादीनाञ्च सन्नादिक पुरुषीयगुणकर्म प्रकृतिभूतत्वेन कार्य्यभूतद्रव्यगुणसमुदायात्मकपुरुष समवायिकारणत्वेन द्रव्याणि स्युरिति ।
अन्यच्च । कर्म्मगुणा यत्राश्रिताः समवायेन वर्त्तन्ते स्म तत्, समवायिकारणं यज्, तद द्रव्यं घटादिषु पुरुषादिषु च यानि मृज्जलादीनि श्यामपीतगुरुलाघवादयश्च स्पन्दनगमनादीनि च वर्त्तन्ते तेषां मध्ये यत्र मृज्जलादौ समवायेन कर्मगुणा आश्रिता, तन्मृज्जलादिकरूपं यत् समवायिकारणं तदेव घटादिकाय्यस्य द्रव्यम् । तथा मृज्जादि द्रव्यं खादिकमेवेति प्राहुः । परे तु समवायिकारणन्तु तत् । - यत समवेतं कार्यं भवति गुण कम्प्रेसवेवन्तु न कार्यय भवति न हि गुणकर्म्मणो कार्यं कुरुत इति, न गुणकम्मणी समवायिकारणे भवतः, भवतश्च असमवायिकारणे, इति तयोर्न द्रव्यत्वं यत् समवायिकारणं तद्द्रव्यमित्येव लक्षणमेकं कार्य्यरूपे arat द्रवत्वानुपपत्तिवारणाय लक्षणान्तरमाह, यत्रेत्यादि । यत्र समवायेन कगुणा आश्रिता वृत्तास्तदपि द्रवपं यथा घटादिकमित्याहुस्तन्न, दृश्यन्ते हि मृद वालुकादिसमवायिकारणीयगुणकर्नघटितान्येव घटादिषु गुणकर्माणि घटादिषु गुणकम्मणोः समवायिकारणान्येव ततसमवायिकारणीभूतद्रव्याणां गुणकर्माणि अन्यथाऽन्यथात्वेन गुणकर्म्मसम्भवापत्तेर्मृदादिगुणकर्मातिरिक्तगुणा हि न तत्र दृश्यन्ते । कारणगुणपूर्वको हि कार्य्यगुणो दृष्ट इति कणादकपिलादिवर्षिमतमिति । कश्चित् तु कर्म्माश्रयत्वोपदेशो द्रवंयस्य गुणादिपञ्चव्यवच्छेदार्थमात्रज्ञापको न तु सजातीयव्यावर्त्तनशापकस्तेन खात्मकालदिशां कर्माभावेऽपि द्रव्यत्वं गुणाश्रयत्वोपदेशश्च विजातीयगुणादिपश्चव्यावृत्तिज्ञापनार्थमिति, समवायिकारणत्वञ्च सजातीयविजातीयगुणकम्मणोः साम्शापनार्थमिति द्रव्यन्तूत्पन्नमात्र' क्षणमगुणं द्वितीयक्षणावश्यम्भाषिगुणवदिति यदुच्यते, तदप्युत्तरक्षणे यद गुणयोगावश्यम्भावित्वं स गुणस्तद द्रव्योत्पत्तिकाले कुत्र तिष्ठति किमुपादनकश्च कथं वा जातः, किं प्राय द्रव्योत्पत्तः पूर्व्यं जातः किं तुल्यकालं द्वितीयक्षणजातो वाऽथ प्रसिद्ध एवाजात इति । अथ किन्नु खल्वाकाशे तिष्ठति । प्राक्मसिद्ध एवाजातः खपुष्पवत्
दीनामपि कारणत्वं बोद्धव्यम् । एवम्भूतञ्च कारणत्वं यद्यपि सामान्यादिष्वपि चत्रिवनुगम्यते, तथापि समवायी स्वितिपदेन समवायाधारता तथा समवायाधेयता च युगपद्विषक्षिता, तेम १४
For Private and Personal Use Only